Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] २१९
-
सूपैर्विलिप्यते स्म ,,-सूपविलिप्तः ) .
" , सूपविलिप्तम् । पुंसि 'जिन' (७४) वत..क्लीने भत्रै-
अभ्रविलिप्तः । 'दर्शन' (१५६) वध रूपाणि ॥ " , अभ्रविलिप्तम् ) . अनपेऽर्थे तु भान्भवति । यथा-अनरुपेन चन्दनेन लिप्सा-चन्दनानु. लिप्ता नी। रूपाणि तु 'दया' (१६५) वत् ॥ (२५६) ईकारान्तः स्त्रीलिङ्गः 'शङ्कभिन्नी' शब्दः॥
(शङ्खौ मिन्नावस्याः शङ्खभिन्नी ) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम् उरुमिनीकेशविलूनी-गलककृत्तीप्रभृतयः ॥
शब्दसाधनिका त्वियम्-वाङ्गादेः कृतादिवर्जितात् कान्ताबहुव्रीहेः "स्वाङ्गादेरकृतमितजातप्रतिपन्नावहुव्रीहेः" [२, ४, ४६] इति स्त्रियां कीर्भवतीति ॥ शङ्को मिश्रावस्य-शङ्खभिन्नः । शङ्खभिन्नम् ॥ उरू भिन्नावस्या: -ऊरुभिन्नी । अरू भिन्नावस्य-उरुभिन्नः उरुभित्रम् । केशा विलूना अस्याः केशविलूनी एवमुत्तरत्रापि । पुसि 'जिन' (७४) वत्, गलकं कृत्तमस्याः =गलककृती।) क्लीबे 'दर्शन' (१९६) वच्च रूपाणि ॥
__ न चात्र तान्तस्वात् "क्ताः" [३, १, १५१] इति तान्तस्य प्रानिपातः स्यादिति वाच्यम्, “जातिकालसुखादेवा" [३, १, १५२] इति तान्तस्य प्रागनिपातविकल्पनात् । तथा च शङ्खादेः प्राग्निपातः सुघटः ॥
(२५७) ईकारान्तः स्त्रीलिङ्गः 'शाङ्गरजग्धी' शब्दः ॥
(शाङ्गरो जग्धोऽनया-शाङ्गरजग्धी, शाङ्गरजग्धा) एतद्पाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं पलाण्डुभक्षिती ॥
शब्दसाधनिका त्वियम्-अत्राच्छादवर्जिता या जातिस्तदादेः कृतादिवर्जितकान्ताबहुव्रीहे: "अनाच्छादजात्यादेवा" [२, ४, ४७] इति ङीर्वा भबतीति ॥ ड्यभावे आपि 'दया' (१६५) वद्रूपाणि ॥
शाङ्गरो जग्धोऽनेन-शाङ्गरजग्धः । शाङ्गरजग्धम् ॥ शाङ्गरो जग्धोऽनया

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228