Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 215
________________ २१२ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ] (२४५) ईकारान्तः स्त्रीलिङ्गः 'केवली' शब्दः ॥ एतद्रूपाणि तस्साधनिका च 'नदी' (२२५) वत् । एवम्-मामकीभागधेयी-पापी-अपरी-समानी-आर्यकृती-सुमङ्गली-भेषजीत्यष्टौ शब्दाः ॥ शब्दसानिका त्वियम्-केवलादिशब्देभ्य: संज्ञायां “केवल-मामकभागधेय-पापा-पर-समानाऽऽर्यकृत-सुमङ्गल-भेषजात्" [ २, ४, २९] इति या "भस्य." [२, ४, ८६] इति अकारलुकि 'केवली' इत्यादय: सिध्यन्ति ॥ ____ केवली ज्योतिः । मामकी=मातुली । भागधेयी बलिः। पापी ओषधिः । अपरी ओषधिः । समानी छन्दः । आर्यकृती क्रियाविशेषः । सुमङ्गली छन्द ओषधिर्वा । भेषजी ओषधिः ॥ संज्ञाविषयाभावे 'केवला' इत्यादय आबन्ता विज्ञेयाः, रूपाणि च दया' (१६५) वत् ॥ (२४६) ईकारान्तः स्त्रीलिङ्गः ‘भाजी' शब्दः ॥ एतद्रपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-गोणी-नागीस्थली-कुण्डी-काली-कुशी-कामुकी-कटी कबरी-ति नव शब्दाः ॥ शब्दसाधनिका त्वियम्-भन्न संज्ञायां भाजादिभ्यो दशभ्यो यथासंख्यं पक्वादिष्वर्थेपु "भाजगोण.” [२, ४, ३०] इति डी:, "अस्य ०" [२, ४, ८६] इत्यकारलुकि च 'भाजी' इत्यादयः सिध्यन्ति ॥ ङ्यभावपक्षे आबन्ता इमे 'दया' (१६५) वद्विज्ञेयाः ॥ भाज्यते इति भाजी पक्का चेत्, भाजाऽन्या । गोणी आवपनं चेत् , गोणाऽन्या । नागी स्थूला चेत्, नागाऽन्या । जाती तु नाग्येव, तस्याः स्थौल्याभावात् । स्थली अकृत्रिमा चेत् , स्थलाऽन्या । कुण्डी अमत्रं चेत् , कुण्डाऽन्या । काली कृष्णा चेत् , कालाऽन्या। कुशी आयसी चेत् , कुशान्या। कामुकी रिरंसुश्चेत्, कामुकाऽन्या । कटी श्रोणी चेत्, कटाऽन्या । कबरी केशपाशश्चेत्, कबराऽन्या ॥ जानपदशब्दादपि वृत्ताविच्छत्यन्यः । तन्मते जानपदी वृत्तिः । वृत्तेरन्यत्र 'जानपदा' मदिरा ॥

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228