Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 214
________________ [श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] २११ शब्दसाधनिका त्वियम्-द्वौ पुरुषो प्रमाणमस्या इत्यर्थे द्विपुरुषशब्दात् "हस्तिपुरुषाद्वाऽण्" [७, १, १४१] इति विकल्पेनाऽण, पक्षे मात्रडपि, “द्विगोः संशये च" [७, १, १४४] इति तयो पि “पुरुषाद्वा" [२, ४, २५] इति कीर्वा भवति; ड्याम् “अस्य." [२, ४, ८६] इत्यकारलुकि 'द्विपुरुषी' यभावे आपि 'द्विपुरुषा' इति ॥ द्वौ पुरुषो प्रमाणमस्य=द्विपुरुषो गतः । 'मोक्ष' (७६) . वढपाणि । ,, ,, , -द्विपुरुष नदीजलम् । 'चारित्र' (१५७) , । त्रयः पुरुषाः ,, त्रिपुरुषो गतः । 'मोक्ष' (७६) " , , -त्रिपुरुषं नदीजलम् । 'चारित्र' (१५७) । ,, ,, प्रमाणमस्याः त्रिपुरुषी, त्रिपुरुषा परिखा । 'द्विपुरुषी' वत् ॥ (२४४) ईकारान्तः स्त्रीलिङ्गः 'रेवती' शब्दः । एतद्रूपाणि तत्साधनिका च 'नदी' (२६५) वत् । एवं रोहिणी ॥ शब्दसाधनिका त्वियम्-अत्र नक्षत्रवृत्तिरेवतरोहिणशब्दाभ्याम् "रेव. तरोहिणाझे" [२, ४, २६] इति डीभवतीति ॥ यदापि " चित्रारेवतीरोहिण्याः स्त्रियाम" [६, ३, १०८] इति सूत्रेण "जाते" [६, ३, ९८] इति जाता यस्याऽणो लुकि, “ड्यादेौणस्य." [२, ४, ९५] इत्यनेन डीप्रत्ययस्याऽपि लुग् भवति, तदापि नक्षत्रशब्दत्वात्पुनः "रेवत." [२, ४,२६] इति डीर्भवतीति 'रेवया जाता रेवती, रोहिण्या जाता रोहिणी'ति. सिद्धं भवति ॥ पुसि-रेवत्यां जात: 'रैवतः' रोहिण्यां जातः 'रौहिणः' । अत्र "जाते" [६, ३, ९८] इति जातार्थेऽणि "अवर्णेवर्णस्य" [७, ६, ६८] इत्यन्त्याऽकारलुकि " वृद्धिः स्वरे० " [७, ४, १] इत्यायस्वरवृद्धौ च रैवतरौहिणशब्दौ सिध्यतः । एतद्रूपाणि तत्साधनिका च 'जिन' (७४) वत् ॥ ___ नक्षत्रवृत्यभावे तु स्त्रियां 'रेवता, रोहिणा' इत्यावन्तौ ज्ञेयो, रूपाणि च 'दया' (१६५) वत् ॥

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228