Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 199
________________ १९६ [श्रोस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् । गौः । अत्र द्विहायनशब्दाद् + वयसि गम्यमाने “सङ्ख्यादेर्हायनाद् वयसि" [२, ४, ९] इति डीप्रत्ययः, तस्मिन् परे “अस्य इयां लुक्" [२, ४, ८६] इत्यकारलुकि 'द्विहायनी' शब्दो भवति । पुंल्लिङ्गे-द्वौ हायनौ वयोमानं यस्य सः-द्विहायनः करभः, रूपाणि 'जिन' (७४) वत् । नपुंसकलिङ्गे तुद्वौ हायनौ वयोमानं यस्य तद्-द्विहायनं बालकुलम्, रूपाणि 'दर्शन' (१५६ ) वत् ॥ (२२८) ईकारान्तः स्त्रीलिङ्गः 'त्रिहायणी' शब्दः॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं चतुर्हायणी ॥ शब्दसाधनिका त्वियम्-त्रयो हायना वयोमानं यस्याः सा-त्रिहा. यणी वडवा । अत्र निहायनशब्दात् 'सङ्ख्यादेर्हायनाद्वयसि" [२, ४, ९] इति डीप्रत्ययः, तस्मिन् परे " अस्य डयां लुक्" [२, ४, ८६] इत्यकारलुकि "चतुस्नायनाद्वयसि"[२, ३, ७४] इति नस्य णत्वे 'त्रिहायणी' शब्दः सिद्धति । एवं चत्वारो हायनाः यस्याः सा=चतुर्हायणी गौः ॥ पुंसि-त्रयो हायनाः यस्य सः त्रिहायणो वल्सः ।। चत्वारो , , ,,-चतुर्हायणो ,, (७) तीबे-त्रयो ,, ,, तत्-त्रिहायणं बालकुलम् ... । 'दर्शन' (१५६) वत् चत्वारो ,, ,,,-चतुर्हायणं ,, , • वयसोऽन्यत्र ङ्यभावः, तदभावाच्च णत्वस्याप्यभावः, यथा निहायना चतुर्हायना शाला, 'दया' (२२५) वद्रूपाणि ॥ (२२९) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः 'औपगवी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-तापसी, कुम्भकारी, काण्डलावी-प्रभृतयः ॥ शब्दसाधनिका त्वियम्-उपगोरपत्यम्=स्त्री औपगवी, पुमान् औपगवः ॥ उपगुशब्दादपत्येऽर्थे “ङसोऽपत्ये' [६, १, २८] इति अण्, तस्मिन् म 'कालकृता प्राणिनां शरीरावस्था वयः'। वयसोऽन्यत्र ङ्यभावः । सथाहि-द्विहायना शाला इत्यादि, रूपाणि तु 'दया' (१६५) वदिति ॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228