Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 198
________________ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ] १९५ (अस्), ङि (इ)' अत्र “सीद्वतः" [३, ४, २९] इति सूत्रेण डेङसिस्डिस्थाने यथासङ्ख्यम् (क्रमशः) दै-दास्-दाम-दाम्' इत्यादेशा भवन्ति ( तेषु दकार इत्), तदनु "इवर्णादे" रितीकारस्य यत्वे 'नौ' ( सस्य रुत्वे विसर्गे च ) 'नद्याः २, नद्याम्' इति ॥ 'नदी+आम'="हस्वापश्च" [१, ४, ३२] इत्यामो नामादेशे 'नदीनाम'॥ 'नदी+ओस्' पूर्ववद्यत्वे सस्य रुत्वे विसर्गे च 'नयोः' २ ॥ 'नदी+सुप् (सु)' "अनवर्णा नामी" [१, १, ६] इतीकारस्य नामिसंज्ञायां (नामित्वे), "नाम्यन्तस्था०" [२, ३, १५] इति सस्य षत्वे 'नदीषु॥ सम्बोधनैकवचने 'नदी+सि' इति स्थिते “नित्यदिद्वि०" [१, ४, ४३] इती. कारस्य (सिना सह) हस्वत्वे 'हे नदि !' इति ॥ (२२६) ईकारान्तः स्त्रीलिङ्गः 'गौरी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी' ( २२५ ) वदपि तु षष्ठीबहुवचने 'गौरीणाम्' इति रूपम्, तत्र च "रष्वर्णा०" [ २, ३, ६३ ] इति गत्वं विज्ञेयम् ॥ शब्दसाधनिका त्वियम्-गौरशब्दाद् "गौरादिभ्यो मुख्यान्डीः' [२, ४, १९] इति ङी (ई) प्रत्ययः, तस्मिन् परस्मिन् “ अस्य ङयां लुक् " [ २, ४, ८६ ] इत्यकारलुकि 'गौरी' इति । देवाङ्गाना पार्वती च तदर्थः । गौरवर्णविशिष्टवाचित्वे तु विशेषणत्वात् विष्वपि लिङ्गेषु गौरशब्दः, तस्य पुंस्त्वविवक्षायां 'वीर' (७५) वत्, नपुंसकत्वविवक्षायां 'चारित्र' (१५७) वद्रूपाणि साधनिका च बोध्या । स्त्रीत्वे तु उपर्युक्तवदेव ___ एवम्-अमरी, सुन्दरी, शबली, सारङ्गी, दासी, चेटी, भिक्षुकी, पुत्री, गायत्री, हयी, गवयी, प्रमुखानां गौरादिगणपठितानां शब्दानां रूपाणि साधनिका च स्वधिया ज्ञेया ॥ (२२७) ईकारान्तः स्त्रीलिङ्गः 'द्विहायनी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् ॥ शब्दसाधनिका त्वियम्-द्वौ हायनौ वयोमानं यस्याः सा=द्विहायनी

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228