________________
[ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङोप्रत्ययान्तं प्रकरणम् ] १९५
(अस्), ङि (इ)' अत्र “सीद्वतः" [३, ४, २९] इति सूत्रेण डेङसिस्डिस्थाने यथासङ्ख्यम् (क्रमशः) दै-दास्-दाम-दाम्' इत्यादेशा भवन्ति ( तेषु दकार इत्), तदनु "इवर्णादे" रितीकारस्य यत्वे 'नौ' ( सस्य रुत्वे विसर्गे च ) 'नद्याः २, नद्याम्' इति ॥ 'नदी+आम'="हस्वापश्च" [१, ४, ३२] इत्यामो नामादेशे 'नदीनाम'॥ 'नदी+ओस्' पूर्ववद्यत्वे सस्य रुत्वे विसर्गे च 'नयोः' २ ॥ 'नदी+सुप् (सु)' "अनवर्णा नामी" [१, १, ६] इतीकारस्य नामिसंज्ञायां (नामित्वे), "नाम्यन्तस्था०" [२, ३, १५] इति सस्य षत्वे 'नदीषु॥ सम्बोधनैकवचने 'नदी+सि' इति स्थिते “नित्यदिद्वि०" [१, ४, ४३] इती. कारस्य (सिना सह) हस्वत्वे 'हे नदि !' इति ॥
(२२६) ईकारान्तः स्त्रीलिङ्गः 'गौरी' शब्दः ॥
एतद्रूपाणि तत्साधनिका च 'नदी' ( २२५ ) वदपि तु षष्ठीबहुवचने 'गौरीणाम्' इति रूपम्, तत्र च "रष्वर्णा०" [ २, ३, ६३ ] इति गत्वं विज्ञेयम् ॥
शब्दसाधनिका त्वियम्-गौरशब्दाद् "गौरादिभ्यो मुख्यान्डीः' [२, ४, १९] इति ङी (ई) प्रत्ययः, तस्मिन् परस्मिन् “ अस्य ङयां लुक् " [ २, ४, ८६ ] इत्यकारलुकि 'गौरी' इति । देवाङ्गाना पार्वती च तदर्थः । गौरवर्णविशिष्टवाचित्वे तु विशेषणत्वात् विष्वपि लिङ्गेषु गौरशब्दः, तस्य पुंस्त्वविवक्षायां 'वीर' (७५) वत्, नपुंसकत्वविवक्षायां 'चारित्र' (१५७) वद्रूपाणि साधनिका च बोध्या । स्त्रीत्वे तु उपर्युक्तवदेव
___ एवम्-अमरी, सुन्दरी, शबली, सारङ्गी, दासी, चेटी, भिक्षुकी, पुत्री, गायत्री, हयी, गवयी, प्रमुखानां गौरादिगणपठितानां शब्दानां रूपाणि साधनिका च स्वधिया ज्ञेया ॥
(२२७) ईकारान्तः स्त्रीलिङ्गः 'द्विहायनी' शब्दः ॥
एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् ॥ शब्दसाधनिका त्वियम्-द्वौ हायनौ वयोमानं यस्याः सा=द्विहायनी