________________
१९६ [श्रोस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ।
गौः । अत्र द्विहायनशब्दाद् + वयसि गम्यमाने “सङ्ख्यादेर्हायनाद् वयसि" [२, ४, ९] इति डीप्रत्ययः, तस्मिन् परे “अस्य इयां लुक्" [२, ४, ८६] इत्यकारलुकि 'द्विहायनी' शब्दो भवति । पुंल्लिङ्गे-द्वौ हायनौ वयोमानं यस्य सः-द्विहायनः करभः, रूपाणि 'जिन' (७४) वत् । नपुंसकलिङ्गे तुद्वौ हायनौ वयोमानं यस्य तद्-द्विहायनं बालकुलम्, रूपाणि 'दर्शन' (१५६ ) वत् ॥
(२२८) ईकारान्तः स्त्रीलिङ्गः 'त्रिहायणी' शब्दः॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं चतुर्हायणी ॥
शब्दसाधनिका त्वियम्-त्रयो हायना वयोमानं यस्याः सा-त्रिहा. यणी वडवा । अत्र निहायनशब्दात् 'सङ्ख्यादेर्हायनाद्वयसि" [२, ४, ९] इति डीप्रत्ययः, तस्मिन् परे " अस्य डयां लुक्" [२, ४, ८६] इत्यकारलुकि "चतुस्नायनाद्वयसि"[२, ३, ७४] इति नस्य णत्वे 'त्रिहायणी' शब्दः सिद्धति । एवं चत्वारो हायनाः यस्याः सा=चतुर्हायणी गौः ॥ पुंसि-त्रयो हायनाः यस्य सः त्रिहायणो वल्सः ।। चत्वारो , , ,,-चतुर्हायणो ,,
(७) तीबे-त्रयो ,, ,, तत्-त्रिहायणं बालकुलम् ...
। 'दर्शन' (१५६) वत् चत्वारो ,, ,,,-चतुर्हायणं ,, , • वयसोऽन्यत्र ङ्यभावः, तदभावाच्च णत्वस्याप्यभावः, यथा निहायना चतुर्हायना शाला, 'दया' (२२५) वद्रूपाणि ॥
(२२९) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः 'औपगवी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-तापसी,
कुम्भकारी, काण्डलावी-प्रभृतयः ॥ शब्दसाधनिका त्वियम्-उपगोरपत्यम्=स्त्री औपगवी, पुमान् औपगवः ॥ उपगुशब्दादपत्येऽर्थे “ङसोऽपत्ये' [६, १, २८] इति अण्, तस्मिन्
म 'कालकृता प्राणिनां शरीरावस्था वयः'। वयसोऽन्यत्र ङ्यभावः । सथाहि-द्विहायना शाला इत्यादि, रूपाणि तु 'दया' (१६५) वदिति ॥