Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 208
________________ [श्रोस्याद्यन्तरत्नाकरे-ईकारान्तं डोप्रत्ययान्तं प्रकरणम् ] २०५ 'कुमारी' । यथा 'कुमारी+अम्+क्यन्+हिप्' इति स्थिते “ ऐकायें " [३, २, ८] इति अम्लुपि "अत:" [४, ३, ८३] इति अकारलुकि "वोः प्वव्यञ्जने" [४, ४, १२१] इति यकारलुकि च कुमारीशब्दः सिद्धयतीति । २. कुमारीमिवाऽऽचरतीति-उपमानभूताद् द्वितीयान्तादाचारार्थे "आधाराबोपमानादाचारे" [३, ४, २४] इति क्यनि कुमारीयति; अग्रे पूर्ववत् साध्यम् ॥ ३ कुमारीवाऽऽचरतीति-उपमानभूताद् प्रथमान्तादावारेऽर्थे “ क्या" [३, ४, २६] इति क्यङि कुमारीयते; तत: क्विपि 'कुमारी' इति । यथा 'कुमारी+सि+२क्य+क्विप' इति दशायाम् “ऐकार्ये " [३, २, ८] इनि सिलोपो विधेयः, तदनु प्राग्वत् साध्यम् ॥ ___४ कुमारीवाऽऽचरतीति कर्तरुपमानादाचारेऽथ "कर्तुः विप् गल्भक्लीब. होडात्तु डित्" [३, ५, २५] इति क्विपि कुमारीति धातुर्जातस्तस्य नामस्व. सम्पादनकृते “ विप्" [५, १, १४८] इति पुनः क्विपि 'कुमारी' इति शब्दस्वरूपं भवतीति ॥ ५. यदा तु कुमारशब्दात् कुमारीशब्दः साध्यस्तदा पूर्ववत् क्यन्प्रत्यवे जाते "क्यनि" [४, ३, ११२] इति सूत्रेण अकारस्थाने ईकारादेशे (पर्जन्यवल्लक्षणप्रवृत्तिरिति न्यायबलाद् ) “दीर्घश्वियङ्यक्क्येषु" [४, ३, १०८] इति दीर्घवं विधेयं शेषं च प्राग्वत् साध्यमिति ॥ रूपसाधनिका त्वियम्-'कुमारी+सि (स्)'=" दीर्घयाब" [३, ४, ४५] इति से कि कुमारी॥ 'कुमारी+और, जस (अस्)="योऽनेकस्वरस्य" [२, ३, ५६] इतीकारस्थाने यकारादेशे कुमार्योर कुमार्यः । 'कुमारी+अम्' अत्र “समानादमोऽतः" [१, ४, ४६] इत्यस्य 'कुमारी+शस् (अस् ) =अत्र “शसोऽता." [१, ४, ४९] इत्यस्य च बाधं कृत्वा “योऽनेकस्वरस्य" [२, १, ५६] इतीस्थाने यत्वे कुमार्यम्, कुमार्यः ॥ 'कुमारी+टा (आ)'='योऽनेक." इति यत्वे कुमार्या ॥ 'कुमारी+ (ए), ङसि डस् (अस् ), , अत्र ककारनकारी इतौ ॥ २ अत्र कही इतौ ॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228