Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२०६ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं प्रत्ययान्तं प्रकरणम् ]
कि (इ)'="स्त्रीदूतः” [३, ४. २९] इति डेङसिङस्डिस्थाने क्रमेण दैदासदास्दाम्-इति दिदादेशेषु सत्सु " योऽनेक० " इति यस्वे कुमार्यै, कुमार्याः २. कुमार्याम् । ननु "योऽनेकस्वरस्य" [२, १, ५६] इत्यस्य परत्वात् पूर्व यका. रादेशेन भाव्यम् , तदनु ईकारान्तस्वाभावाद् दिदादेशा न सिद्धरन्-इति चेदुच्यते-‘परेणापि इयुव्यत्वादिना खोदूदाश्रितं कार्य न बाध्यते' इति न्यायबलात परादपि यस्वादेशात् प्रागेव दिदादेशा भविष्यन्तीति । न च तस्मिन् न्याये किं प्रमाणमिति वाच्यम्; "वेयुवोऽस्त्रियाः" [१, ४, ३०] इति सूत्रे 'अस्त्रियाः' इति निर्देशस्यैव प्रमाणत्वात् । यदुक्तं श्रीसिद्ध हेमबृहद्वृत्ती"अस्निया इति निर्देशात् परादपि इयुव्यत्वादिकार्या:प्रागेव स्त्रीदाश्रितं कार्य भवति"-इति, “कुमारी मिच्छतीति क्यमन्तात कुमारीवाचरतीति क्विबन्ताद्वा कर्तरि क्विप् कुमारी तस्मै कुमार्य ब्राह्मणाय ब्राह्मण्यै वा"-इति च ॥ न च प्रस्तुतकुमारीशब्दस्य कुमारीच्छाकर्तृकपुरुषविशेषस्य बोधकत्वात् स्त्रीत्वाभावेन कथम् "स्त्रीदूतः” [१, ४. २९] इत्यस्य प्राप्तिरिति वाच्यम् ; "स्त्रीदृतः" इति सूत्रे गौणमुख्यान्यतरस्त्रीत्वबोधकशब्दस्य ग्रहणात् ॥ 'कुमारी+ओस्'२="योऽनेक." इति यत्वे, सस्य रुवे विसर्गे च कुमार्योः२ ॥ 'कुमारी+आम्'=" ह्रस्वापश्च" [१, ४, ३२] इति आमो नामादेशे "रघुवर्णा०" [२. ३, ६३] इति नस्य णत्वे कुमारीणाम् ॥ 'कुमारी+सुप् (सु)="नाम्यन्तस्था०" [२, ३, १५] इति सस्य षत्वे कुमारीषु ॥ सम्बोधनैकवचने 'कुमारी+सि'=''नित्यदिद्वि०" [३, ४, ४३] इतीकारस्य (सिना सह) हस्वत्वे हे कुमारि ! इति ॥ तथा च स्वरादिषु सर्वप्रत्ययेषु “योऽनेक०" इत्यनेन यत्वं विधेयम् , शेषं च 'नदी' (२२५) वत्साध्यमिति साधनिकाहृदयम् ॥
॥ इति रूपसाधनिका ॥
नपुंसकलिङ्गे नामधातुरूपस्य 'कुमारी' शब्दस्य "क्लीबे" [२, ४, ९७] इति हस्वरवे 'कुमारि' इति शब्दस्वरूपं भवति, तस्य रूपाणि, यथा

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228