Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२०० [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डोप्रत्ययान्तं प्रकरणम् ]
तदनु “अस्य यां लुक्" [२, ४, ८६] इति अकारस्य लुकि 'शिलेयी' इष्टका क्लीबे च शिलायास्तुल्यं 'शिलेयम्' दधि, 'दर्शन' (१५६) वत् ॥ " (२३३) ईकारान्तः स्त्रीलिङ्गस्तद्धितान्तः 'शैलेयी' शब्दः । ___शिलायास्तुल्या 'शैलेयी' इष्टका । एतद्रूपाणि तत्साधनिका च
- 'नदी' (२२५) वत् । एवं 'वास्तेयी' शब्दः ॥ - अत्र शिलाशब्दात्तुल्येर्थे "शिलाया एयच्च" [७, १, ५१३] इति एयञ् प्रत्ययो भवति, तदनु "अवणे” [ ७. ४, १८ ] इत्याऽऽकारलुकि " वृद्धिः स्वरे." [७, ४, ५] इतीकारस्यैकारे च 'शलेय' इति प्रकृतिर्भवति । पुंसिशिलायास्तुल्यः पुरुषः शलेयः, 'जिन' (७४) वत् । स्त्रियां- "अणजेये." [ २, ५, २० ] इति एयञ् लक्षणो डी 'क्लीबे' च शिलायास्तुल्यं शैलेयं दधि 'दर्शन' (१५६) वत् ॥
एवं वस्तेस्तुल्या वास्तेयी प्रणालिका । पुंसि वस्तेस्तुल्यः वास्तेयः पन्थाः, 'जिन' (७४) वद्रूपाणि। क्लीबे च वस्तेस्तुल्यम् वास्तेयं वर्म, 'दर्शन' (१५६) वद्रूपाणि । अत्र “वस्तरेयज़ " [७, १, ११२ ] इति 'एयञ्' इति विशेषः । (२३४) ईकारान्तः स्त्रीलिङ्गस्तद्धितान्तः 'आक्षिकी' शब्दः।
( अर्जिता, अर्जयति, अक्षैर्दीव्यति वा आक्षिकी ) __एतद्रपाणि तत्साधनिका च 'नदी' ( २२५ ) वत् । एवं प्रास्थिकी ॥ ... अत्र तृतीयान्ताताद् अक्षशब्दात् जिते जयति दीव्यति चाऽर्थे “ तेन जितजयद्दीव्यत्खनरसु " [६, ४, २] इति 'इकण्' भवति, तदनु “ अवणे " [७, ४, ६८] इत्यन्त्येकारलुकि "वृद्धिः स्वरे." [७, ४, १] इत्यकारस्याऽऽकारे च 'आक्षिक' इति प्रकृतिः । पुंसि-अर्जितः, अजयति, अक्षैर्दीव्यति वा=
अत्र 'एय' इति निरनुबन्धनिर्देशः सामान्यग्रहणार्थस्तेन एयन्प्रत्ययया. न्तादपि डीभवतीति ॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228