Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ श्रीस्याद्यन्तरत्नाकरे - ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] १९९ इथं 'नदी' (२२५) वद्रूपसाधनिका ज्ञेया । एवं वैनतेयी, यौवतेयी, कामण्डलेयी - त्यादयः ॥
अन्न सुपर्णीशब्दात् 'ड्याप्त्यूङ: " [ ६. १, ७० ] इति एयण्, तदनु “अवर्णेवर्णस्य” [७, ४, ६८ ] इतीकारलुकि "वृद्धिः स्त्ररे० " [ ७, ४, १ ] इत्युकारस्यौकारे च 'सौपर्णेय शब्दः । अस्य पुंसि 'जिन' (७४) वद्रूपाणि । स्त्रियां तु ". * अणञेये० " [ २, ४, २० ] इति एयणलक्षणो ङीस्तदनु " अस्य ड्यां लुक्” [२, ४, ८६ ] इत्यकारलुकि "सौपर्णेयी' इति ॥
एवं विनताया अपत्यं = 'वैनतेयः' पुमांश्चेत्, स्त्री चेत् वैनतेयो ॥ युवतेरपत्यं = पुमान् यौवतेयः, स्त्री यौवतेयो । कमण्डल्वा अपत्यं = पुमान् कामण्डलेयः, स्त्री कामण्डलेयी-अत्र 'अकण्डूपाण्ड्वोरुवर्णस्यैये" [७, ४, ५९ ] इत्यनेनान्त्यस्य उकारस्य लुगिति विशेषः । किञ्च " चतुष्पाद्भ्य एयञ्” [१, १, ८३ ] इति एयञ्प्रत्ययोऽपि भवतीति ॥
(६३२) ईकारान्तः स्त्रीलिङ्गस्तद्धितान्तः 'शिलेयी' शब्दः । शिलायास्तुल्या= शिलेयी इष्टका ॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् ।
"
अत्र शिलाशब्दात्तुल्येऽर्थे “ शिलाया x यच्च [ ७. ६, ११३ ] इति यच्प्रत्ययो भवति, तदनु " अवर्णवर्णस्य" [७, १, ६८ ] इत्याकारलुकि 'शिलेय' इति प्रकृतिः । पुंसि शिलायास्तुल्यः पुरुषः शिलेयः 'जिन' (७४) वत् । स्त्रियां " अणमेये ० " [२, ४, २०] इति एयच्लक्षणो बीजयते,
35
* 'निरनुबन्धग्रहणे सामान्येन' - ग्रहणमिति न्यायबलाद् एयग्रहणेन एयण्-एयच्- एयन्प्रत्ययानां ग्रहणम् ॥
X अत्र चकारः " अणज्येयेकण्०" [२, ४, २० ] इति एयस्य सामान्यग्रहणाविघातार्थः । अन्यथा हास्यैव स्यात् । अन्ये तु द्रव्यशब्दवदेयजन्त स्त्रियां नास्तीत्याहुः ॥

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228