Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 187
________________ १८४ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] उदुम्बरस्य राज्ञोऽपत्यं वृद्धमौदुम्बरिस्तस्यापत्यं युवा 'औदुम्बरिः औदुम्बरायणो वा' । अत्रादौ " साल्वांश० " [६, १, ११७] इति 'इञ्' तदनु यून्यपत्ये " यन्निनः " [ ६, १, ५४ ] इति 'आयनण्' भवति, तत: " दीनोवा " [ ६, १, १३९ ] इत्यायनणो विकल्पेन लुब्भवतीति ॥ ___उदुम्बराणां राजा औदुम्बरिस्तस्यापत्यम् 'औदुम्बरः, औदुम्नरायणिर्वा । अत्र " अवृद्धाहोर्नवा " [ ६, १, ११० ] इति पक्षे आयनिञ् ॥ (२१२) इकारान्तस्तद्धितान्तः 'प्रात्यग्रथि' शब्दः । पुंल्लिङ्ग-- ( प्रत्यग्रथानां राजा, प्रत्यग्रथस्य राज्ञोऽपत्यं वा पुमान-प्रात्यग्रथिः ) वि० एकव० द्वि० हुव० प्र.. प्रात्यग्रथिः प्रात्यग्रथी प्रत्यग्रथाः द्वि. प्रात्यग्रथिम् प्रत्यग्रथान् तृ० प्रात्यग्रथिना प्रात्यग्रथिभ्याम् प्रत्यग्रथैः इत्थमग्रे एकवचनद्विवचनयो: 'मुनि' (१७५) वद, बहुवचनने च 'जिन' (७४) वद्रूपाणि साधनिका च ज्ञेया ॥ अत्र " साल्वांशप्रत्यग्र० " [ ६, १, ११७ ] इति द्रिसंज्ञक 'इञ्' भवति, तदनु “ अवर्णे " [ ७, ६, ६८ ] इति अन्त्याकारलुकि " वृद्धिः स्वरे. " [ ७, ४, १ ] इति आद्याऽकारस्याऽऽकारे प्रात्यग्रथि' इति इका. रान्ता प्रकृतिः । सा च एकवचनद्विवचनयोरेव । बहुवचने तु " बहुष्वस्त्रियाम् " [ ६, १, ११४ ] इति देरिनो लुकि 'प्रत्यग्रथ' इति प्रकृतिः ॥ स्त्रीलिङ्गे तु-प्रत्यग्रथस्य राज्ञोऽपत्यं स्त्री 'प्रात्यग्रथी' इति वक्ष्यमाण 'नदी' (२२५) वत् । अत्र “नुर्जातेः" [ २, ४, ७२ ] इति डीविहितः ॥ (२१३) इकारान्तस्तद्धितान्तः कालकूर्टि' शब्दः । पुल्लिङ्गे ( कलकूटानां राजा, कलकूटस्य गज्ञोऽपत्यं वा पुमान् कालकुटिः ) वि० एकव० द्विव० बहुव० प्र० कालकूटिः कालकूटी कलकूटाः द्वि० कालकूटिम् कलकूटान् तृ० कालकूटिना कालकूटिभ्याम् कलकूटैः

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228