________________
१८४ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ]
उदुम्बरस्य राज्ञोऽपत्यं वृद्धमौदुम्बरिस्तस्यापत्यं युवा 'औदुम्बरिः औदुम्बरायणो वा' । अत्रादौ " साल्वांश० " [६, १, ११७] इति 'इञ्' तदनु यून्यपत्ये " यन्निनः " [ ६, १, ५४ ] इति 'आयनण्' भवति, तत: " दीनोवा " [ ६, १, १३९ ] इत्यायनणो विकल्पेन लुब्भवतीति ॥ ___उदुम्बराणां राजा औदुम्बरिस्तस्यापत्यम् 'औदुम्बरः, औदुम्नरायणिर्वा । अत्र " अवृद्धाहोर्नवा " [ ६, १, ११० ] इति पक्षे आयनिञ् ॥
(२१२) इकारान्तस्तद्धितान्तः 'प्रात्यग्रथि' शब्दः । पुंल्लिङ्ग-- ( प्रत्यग्रथानां राजा, प्रत्यग्रथस्य राज्ञोऽपत्यं वा पुमान-प्रात्यग्रथिः ) वि० एकव०
द्वि०
हुव० प्र.. प्रात्यग्रथिः प्रात्यग्रथी प्रत्यग्रथाः द्वि. प्रात्यग्रथिम्
प्रत्यग्रथान् तृ० प्रात्यग्रथिना प्रात्यग्रथिभ्याम् प्रत्यग्रथैः
इत्थमग्रे एकवचनद्विवचनयो: 'मुनि' (१७५) वद, बहुवचनने च 'जिन' (७४) वद्रूपाणि साधनिका च ज्ञेया ॥
अत्र " साल्वांशप्रत्यग्र० " [ ६, १, ११७ ] इति द्रिसंज्ञक 'इञ्' भवति, तदनु “ अवर्णे " [ ७, ६, ६८ ] इति अन्त्याकारलुकि " वृद्धिः स्वरे. " [ ७, ४, १ ] इति आद्याऽकारस्याऽऽकारे प्रात्यग्रथि' इति इका. रान्ता प्रकृतिः । सा च एकवचनद्विवचनयोरेव । बहुवचने तु " बहुष्वस्त्रियाम् " [ ६, १, ११४ ] इति देरिनो लुकि 'प्रत्यग्रथ' इति प्रकृतिः ॥
स्त्रीलिङ्गे तु-प्रत्यग्रथस्य राज्ञोऽपत्यं स्त्री 'प्रात्यग्रथी' इति वक्ष्यमाण 'नदी' (२२५) वत् । अत्र “नुर्जातेः" [ २, ४, ७२ ] इति डीविहितः ॥
(२१३) इकारान्तस्तद्धितान्तः कालकूर्टि' शब्दः । पुल्लिङ्गे ( कलकूटानां राजा, कलकूटस्य गज्ञोऽपत्यं वा पुमान् कालकुटिः ) वि० एकव०
द्विव०
बहुव० प्र० कालकूटिः कालकूटी
कलकूटाः द्वि० कालकूटिम्
कलकूटान् तृ० कालकूटिना कालकूटिभ्याम् कलकूटैः