________________
[श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १८५
इत्थमग्रे एकवचने द्विवचने च ' मुनि' ( १७५ ) वद्, बहुवचने तु 'जिन' (७४) वत् ॥
____ अत्र “साल्वांशप्रत्य०" [ ६, १, ११७ ] इति इनि, “ अवर्णे " [७, ४, ६०] इत्यन्त्याकारलुकि "वृद्धिः स्वरे." [ ७, ४, १ ] इत्याद्यस्वरवृद्धावेकवचनद्विवचनयोः 'कालकूटि' इति प्रकृतिः, बहुवचने च "बहुम्व." [६, १ १२४] इति इञो लुकि 'कलकूट' इति प्रकृतिस्तिष्ठति ॥ ... स्त्रीलिङ्गे तु-कलकूटस्य राज्ञोऽपत्यं स्त्री 'कालकूटी' इति वक्ष्यमाण 'नदी' (२२५) वत् । अत्र इबि "नुर्जातेः" [२, ४, ७२] इति डीभवतीति सर्वत्र ज्ञेयम् ॥
(२१४) इकारान्तस्तद्धितान्तः 'आश्मकि' शब्दः । पुल्लिङ्गे( अश्मकानां राजा, अश्मकस्य राज्ञोऽपत्यं वा पुमान्-आश्मकिः ) वि० एकव०
द्विव०
बहुव० प्र० आश्मकिः
आश्मकी
अश्मकाः द्वि० आश्मकिम्
अश्मकान तृ० आश्मकिना आश्मकिभ्याम् अश्मकैः - एवमग्रे एकवचने द्विवचने च 'मुनि' ( १७५ ) वत्, बहुवचने तु 'जिन' (७४) वत् ॥
अत्र अश्मकशब्दात् “साल्वांशप्र०" [ ६, १, ११७ ] इति द्रिसंज्ञके इमि "अवर्णे" [७, ४, ६८] इत्यन्त्याकारलुकि "वृद्धि स्वरे" [७, ४, १] इत्याद्याऽकारस्याऽऽकारे च सत्येकवचन द्विवचनयोः 'आश्मकि' इति प्रकृतिः, "बहुध्वस्त्रियाम्" [ ६, १, १२४ ] इति दुरिजो लुकि बहुवचने "अश्मक" इति प्रकृतिः ॥
स्त्रीलिङ्गे तु-अश्मकस्य राज्ञोऽपत्यं स्त्री आरमकी' इति, वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्राऽपि " नुर्जातेः " [२, ४, ७२] इति डीवि. हित इति ॥ .