________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १८३
उदुम्बरैः
(२११) इकारान्तस्तद्धितान्तः 'औदुम्बर' शब्दः । पुल्लिङ्गे(उदुम्बराणां राजा, उदुम्बरस्य राज्ञोऽपत्यं वा पुमान्-औदुम्बरिः) वि० एकव० द्विव०
बहुव० प्र० औदुम्बरिः औदुम्बरी । उदुम्बराः द्वि० औदुम्बरिम्
उदुम्बरान् तृ. औदुम्बरिणा औदुम्बरिभ्याम् च० औदुम्बरये
उदुम्बरेभ्यः प० औदुम्बरेः ष० ,
औदुम्बर्योः उदुम्बराणाम् स० औदुम्बरौ
उदुम्बरेषु सं० हे औदुम्बरे हे औदुम्बरी हे उदुम्बराः
साधनिका-अत्र "xसाल्वांशप्रत्यग्रथकलकूटाश्मकादिञ्" [६, १, ११७] इति सूत्रेण ( साल्वा नाम जनपदस्तदंशाः उदुम्बरादयस्तेभ्यः राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्योऽनुक्रमेण ) राजनि अपत्येऽर्थे च द्रिसंज्ञक 'इ' प्रत्ययो भवति । इजि च " अवर्णेवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्याऽकारलुकि " वृद्धिः स्वरे० " [ ७, ४, . ] इत्याद्योकारस्य वृद्धौ च सत्यामेकवचनद्विवचनयो: 'औदुम्बरि' इति प्रकृतिः, तद्रूपसाधनिका 'ऋषि' (१७६) वदवसेया । बहुवचने च “बहुष्वस्त्रियाम्" [ ६, १, १२४ ] इति द्रिसंज्ञकस्य इलो लुकि 'उदुम्बर' इति (मूल) प्रकृतिस्तिष्ठति । तस्माद् बहुवचनरूप. साधनिका 'वीर'(७५) शब्दवद्बोध्या एकवचन द्विवचनयोश्च 'ऋषि'(१७६)वत्॥
स्त्रीलिङ्गे तु-उदुम्बरस्य राज्ञोऽपत्यं श्री 'औदुम्बरी' इति, वक्ष्यमाण 'नदी' (२२५) वत् । अत्र “नुर्जातेः" [२, ४, ७२] इति डीः कृत इति ॥
“ उदुम्बरा-स्तिलखला मद्रकरा युगन्धराः भुलिङ्गा शरदण्डाश्च, साल्वांशा इति कीर्तिताः ॥ १॥" .