________________
१८२ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ]
%3
साधनिका-इजन्त 'औडुलोमि' शब्दात् "नुर्जातेः" [ २, ४, ७२ ] इति डी (ई) प्रत्यये 'औडुलोमी' इति (स्त्री) प्रकृतिः; सा चैकवचन द्विचनयोरेव । बहुवचने च-उडुलोम्नोऽपत्यानि स्त्रियः 'उडुलोमाः' । अत्र “लोग्नो. ऽपत्येषु " [६, १, २३] इति 'अ' प्रत्यये, “ नोऽपदस्य० " [७, ४, ६१] इति नस्य लुकि, स्त्रियाम् “ आत् " [ २, ४, १८ ] इत्यापि 'उडुलोमा' इति प्रकृतिः । तथाचैकवचनद्विवचनयोर्वक्ष्यमाण 'नदी' (२२५) वत् , बहुवचने च 'दया' (१६५) वढपसाधनिका ज्ञेया ॥ (२१०) इकारान्तस्तद्धितान्तः 'आसुरि' शब्दः । पुल्लिङ्गे
( असुरस्य ऋषेरपत्यं गोत्रं पुमान् आसुरिः ) वि० एकव० द्विव० बहुव० प्र० आसुरिः
आसुरी आसुरयः द्वि० आसुरिम्
आसुरीन् तृ० आसुरिणा आसुरिभ्याम् आसुरिभिः
इत्थमग्रे 'ऋषि' (१७६) वबोध्यम् ॥
अन्न असुरशब्दाद् " बाह्वादिम्यो गोत्रे " [ ६, १, ३२ ] इति इजि " अवर्णे " [ ७, ४, ६८ ] इति अन्त्याऽकारस्य लुकि " वृद्धिः स्वरे." [ ७, ४, १ ] इत्याद्याऽकारस्य आकारे च 'आसुरि' इति प्रकृतिः । सर्वासु विभक्तिषु तद्रूपसाधनिका 'ऋषि' (१७६) वज्ज्ञेया ॥ ___ स्त्रीलिङ्गे तु-असुरस्य ऋषेरपत्यं स्त्री 'आसुरायणी' इति, वक्ष्यमाण 'नदी' ( २२५ ) वत् ॥
भत्रादौ ऋषिवाचकाऽसुरशब्दाद् “ बाह्वादिभ्यो." इति इनि 'आसुरि' इति, तदनु " कौरव्यमाण्डूकाऽऽसुरेः " [२, ४, ७०] इति स्त्रियां ङीस्तत्सनियोगे डायन् चान्तः । तदनु " डित्यन्त्यस्वरादेः " [२, १, ११४ ] इति सूत्रेण ( 'व्यपदेशिवदेकस्मिन्' इति न्यायबलात् ) इकारस्य लुकि, " रघुवर्णा० " [ २, ३, ६३ ] इति नस्य णत्वे 'आसुरायणी' इति प्रकृतिर्जायते इति ॥