Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 186
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १८३ उदुम्बरैः (२११) इकारान्तस्तद्धितान्तः 'औदुम्बर' शब्दः । पुल्लिङ्गे(उदुम्बराणां राजा, उदुम्बरस्य राज्ञोऽपत्यं वा पुमान्-औदुम्बरिः) वि० एकव० द्विव० बहुव० प्र० औदुम्बरिः औदुम्बरी । उदुम्बराः द्वि० औदुम्बरिम् उदुम्बरान् तृ. औदुम्बरिणा औदुम्बरिभ्याम् च० औदुम्बरये उदुम्बरेभ्यः प० औदुम्बरेः ष० , औदुम्बर्योः उदुम्बराणाम् स० औदुम्बरौ उदुम्बरेषु सं० हे औदुम्बरे हे औदुम्बरी हे उदुम्बराः साधनिका-अत्र "xसाल्वांशप्रत्यग्रथकलकूटाश्मकादिञ्" [६, १, ११७] इति सूत्रेण ( साल्वा नाम जनपदस्तदंशाः उदुम्बरादयस्तेभ्यः राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्योऽनुक्रमेण ) राजनि अपत्येऽर्थे च द्रिसंज्ञक 'इ' प्रत्ययो भवति । इजि च " अवर्णेवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्याऽकारलुकि " वृद्धिः स्वरे० " [ ७, ४, . ] इत्याद्योकारस्य वृद्धौ च सत्यामेकवचनद्विवचनयो: 'औदुम्बरि' इति प्रकृतिः, तद्रूपसाधनिका 'ऋषि' (१७६) वदवसेया । बहुवचने च “बहुष्वस्त्रियाम्" [ ६, १, १२४ ] इति द्रिसंज्ञकस्य इलो लुकि 'उदुम्बर' इति (मूल) प्रकृतिस्तिष्ठति । तस्माद् बहुवचनरूप. साधनिका 'वीर'(७५) शब्दवद्बोध्या एकवचन द्विवचनयोश्च 'ऋषि'(१७६)वत्॥ स्त्रीलिङ्गे तु-उदुम्बरस्य राज्ञोऽपत्यं श्री 'औदुम्बरी' इति, वक्ष्यमाण 'नदी' (२२५) वत् । अत्र “नुर्जातेः" [२, ४, ७२] इति डीः कृत इति ॥ “ उदुम्बरा-स्तिलखला मद्रकरा युगन्धराः भुलिङ्गा शरदण्डाश्च, साल्वांशा इति कीर्तिताः ॥ १॥" .

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228