Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 188
________________ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] १८५ इत्थमग्रे एकवचने द्विवचने च ' मुनि' ( १७५ ) वद्, बहुवचने तु 'जिन' (७४) वत् ॥ ____ अत्र “साल्वांशप्रत्य०" [ ६, १, ११७ ] इति इनि, “ अवर्णे " [७, ४, ६०] इत्यन्त्याकारलुकि "वृद्धिः स्वरे." [ ७, ४, १ ] इत्याद्यस्वरवृद्धावेकवचनद्विवचनयोः 'कालकूटि' इति प्रकृतिः, बहुवचने च "बहुम्व." [६, १ १२४] इति इञो लुकि 'कलकूट' इति प्रकृतिस्तिष्ठति ॥ ... स्त्रीलिङ्गे तु-कलकूटस्य राज्ञोऽपत्यं स्त्री 'कालकूटी' इति वक्ष्यमाण 'नदी' (२२५) वत् । अत्र इबि "नुर्जातेः" [२, ४, ७२] इति डीभवतीति सर्वत्र ज्ञेयम् ॥ (२१४) इकारान्तस्तद्धितान्तः 'आश्मकि' शब्दः । पुल्लिङ्गे( अश्मकानां राजा, अश्मकस्य राज्ञोऽपत्यं वा पुमान्-आश्मकिः ) वि० एकव० द्विव० बहुव० प्र० आश्मकिः आश्मकी अश्मकाः द्वि० आश्मकिम् अश्मकान तृ० आश्मकिना आश्मकिभ्याम् अश्मकैः - एवमग्रे एकवचने द्विवचने च 'मुनि' ( १७५ ) वत्, बहुवचने तु 'जिन' (७४) वत् ॥ अत्र अश्मकशब्दात् “साल्वांशप्र०" [ ६, १, ११७ ] इति द्रिसंज्ञके इमि "अवर्णे" [७, ४, ६८] इत्यन्त्याकारलुकि "वृद्धि स्वरे" [७, ४, १] इत्याद्याऽकारस्याऽऽकारे च सत्येकवचन द्विवचनयोः 'आश्मकि' इति प्रकृतिः, "बहुध्वस्त्रियाम्" [ ६, १, १२४ ] इति दुरिजो लुकि बहुवचने "अश्मक" इति प्रकृतिः ॥ स्त्रीलिङ्गे तु-अश्मकस्य राज्ञोऽपत्यं स्त्री आरमकी' इति, वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्राऽपि " नुर्जातेः " [२, ४, ७२] इति डीवि. हित इति ॥ .

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228