SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२: [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] - - परममक्षि चक्षुर्यस्येति ‘परमाक्षः पुरुषः। अन बहुव्रीहिसमासान्ता. क्षिशब्दस्य स्वाङ्गत्वाद्भवति समासान्तस्तेनाऽकारान्तो भवतीति, तद्रूपाणि 'मोक्ष' ( ७६ ) वदवसेयानि ॥ स्त्रियां तुपरममक्षि यस्याः इक्षुयष्ट्याः सा ‘परमानिः' इयष्टिः ॥ तद्रूपसाधनिकादिचर्चा तत्पुरुषीयस्त्रीलिङ्गक 'अतिदधि' (१९५) वज्ज्ञेया; अपि त्वत्राऽस्वाङ्गत्वात् समासान्तो न भवतीति विशेषः ॥ यदातु-"इतोऽक्त्यर्थात्" [ २, ४, ३२ ] इति डीस्तदा ‘परमाक्षी' इक्षुयष्टिः । तद्पाणि वक्ष्यमाण 'नदी' ( २२५ ) वत् ॥ अत्र डीव्यवधानादेव “ दध्यस्थि० " [ १, ४, ६३ ] इत्यनादेशाभावो भाग्य इति । __. परममक्षि चक्षुर्यस्याः स्त्रियाः साऽपि 'परमाक्षी' इति । भन्न स्वागत्वात् समासान्तटप्रत्ययो भवति, तदनु “ अणजेयेकण्० " [ २, ४, २० ] इति टिल्लक्षणडीभवतीति । अस्यापि रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) वदेव । अत्रापि डीव्यवधानादनोऽभावः ॥ नपुंसकलिङ्गे तु-- परममक्षि चक्षुर्यस्य कुलस्येति ‘परमाक्षम्' कुलम् । अत्राऽपि स्वाङ्गस्वात्समा सान्ते टे ‘परमाक्ष' इत्यस्य 'चारित्र' ( १५७ ) वद्रूपाणि वाच्यानि ॥ परमं च तदक्षि ( मानवस्य ) इति (तत्पुरुषे) 'परमाक्ष' इति प्रकृतिर्भवति स्वाङ्गत्वात् । परमं च तदक्षि ( इक्षोः ) इति 'परमाक्षि' इति प्रकृतिः, अस्वाङ्गत्वात् । आद्याया: प्रकृतेः 'चारित्र' (१५७) वद्रूपणि, अपरायाश्च 'अक्षि' ( १९७ ) वदवसेयानि रूपाणि ॥ ( १९९ ) इकारान्तो विशेषणरूपः 'अतिशालि' शब्दः । पुंल्लिङ्गे (शालीनतिक्रान्तः, अतिशयितः शालिर्वा 'अतिशालिः' ) वि० एकव० द्विव० बहुव० प्र. अतिशालिः अतिशाली अतिशालयः द्वि० अतिशालिम् अतिशालीन् तृ० अतिशालिना अतिशालिभ्याम् अतिशालिभिः बहु
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy