________________
... [ श्रीस्याधन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १७३ इत्थमग्रे 'मुनि' ( १७५ ) शब्दवद्वपाणि साधनिका च ॥
स्त्रियां तु-शालीनतिक्रान्ता या सा 'अतिशालिः, स्त्री । तद्रूपाणि साधनिका च 'मति' (१७७ ) वत् ॥ यदा तु "इतोऽक्त्यर्थात्" [२, ४, ३२] इति डीस्तदा, 'अतिशाली' इत्येतद्रूपाणि साधनिका च वक्ष्यमाण 'नदी', ( २२५ ) शब्दवदवसेया ॥
क्लीबे च-शालीनतिक्रान्तं यत् (कुलं) तद् ‘अतिशालि' इत्यस्य रूपाणि तस्साधनिका च 'शुचि' ( १७९ ) वज्ज्ञेया ॥
अत्र लिङ्गत्रये "दभ्युरःसार्पमधूपानच्छालेः" [ ७, ३, १७२ ] इत्यनेन कुत्राऽपि समासान्तो न स्यात्तत्पुरुषसमासत्वात् ॥
शालयोतिक्रान्ता येन पुरुषेण, सः 'अतिशालिकः' पुरुषः । अथवा अतिशयिता शालयो यस्मिन् देशे सोऽपि 'अतिशालिकः' देशः। अत्र बहुव्रीहित्वात् " दध्युरःसर्पिर्मधूपानच्छालेः " [ ७, ३, १७२ ] इति समासान्त: कच् भवतीति । एतद्रूपाणि साधनिका च 'जिन' (७४) वज्ज्ञेया॥
स्त्रियां च-शालयोऽतिकान्ता यया सा, अथवा अतिशयिता शालयो यस्यां भूमौ सा='अतिशालिका' इति । अत्र बहुव्रीहित्वात् कचि "आत्" [२, ४, १८ ] इत्यापि 'अतिशालिका' इति प्रकृतिस्तद्रूपाणि साधनिका च 'दया' (१६५) वद्वोध्या ।
क्लीबे तु-शालयोऽतिक्रान्ता येन (कुलेन) तद्, अथवाऽतिशयिता शालयो यत्र गृहे तद्-'अतिशालिकम' कुलं गृहं वा । अस्य रूपाणि साधनिका च 'दर्शन' (१५६) वबोध्या । अत्राऽपि बहुव्रीहित्वात् कच् भवतीति ॥ ___ (२००) इकारान्तो विशेषणरूपः. प्रियवारि शब्दः॥
(प्रियं वारि यस्य सः 'प्रियवारि: ॥) वि० एकव०
द्विव० . बहुव० प्र. प्रियवारिः प्रियवारी प्रियवारयः द्वि. प्रियवारिम्
प्रियवारीन् ४० प्रियवारिणा प्रियवारिभ्याम् प्रियवारिभिः
इत्थमने 'ऋषि' ( १७६ ) वोयम्