Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 181
________________ १७८ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् । अथ इकारान्तास्तद्धितान्ताः सप्तदश शब्दाः द्विव० (२०६) इकारान्तस्तद्धितान्तः 'दाक्षि' शब्दः । पुल्लिङ्गे [दक्षस्याऽपत्यं वृद्धं (पौत्रादि ) पुमान् दाक्षिः ] वि० एकव० बहुव० प्र. दाक्षिः दाक्षी दाक्षयः द्वि० दाक्षिम् दाक्षीन् तृ. दाक्षिणा दाक्षिभ्याम् दाक्षिभिः एवमने 'ऋषि' (१७६) वद्रूपाणि वाच्यानि ॥ रूपसाधनिकाऽपि तथैव ॥ ऋषिवाचकदक्षशब्दाद् “ अत इञ्" [६, १, ३१ ] इत्यपत्येऽर्थे. ऽणोऽपवादरूप 'इञ्' प्रत्ययो भवति; तदनु " अवर्णेवर्णस्य " [७, ४, ६८] इत्यन्त्याऽकारलुकि " वृद्धिः स्वरेष्वादेणिति तद्धिते [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्याम् ‘दाक्षि' इति प्रकृतिस्विष्वपि वचनेष्ववसेया ॥ स्त्रीलिङ्गे तु-दक्षस्याऽपत्यं वृद्धं स्त्री 'दाक्षी' इति, वक्ष्यमाण 'नदी' (२२५) वत् । भन्न " नुर्जातेः " [ २, ४, ७२ ] इति डीभवतीति ॥ दाझरपत्यं युवा 'दाक्षायणः' इति 'जिन' (७४) वत् । अत्र इजन्तदक्षशब्दाचून्यपत्येऽर्थे " यजिजः ” [ ६, १, ५४ ] इत्यायनण् भवतीति ॥ एवं च सर्वत्र सूत्रविशेषाभावे वृद्धेऽपत्येऽर्थे विहितौ यौ यजिजौ तदन्ताधून्यपत्ये आयनण् प्रत्ययो विधेयः । यथा-गाायणः, 'वात्स्यायनः' इत्याचा यजन्ताः शब्दाः; प्लाक्षायणः, औदुम्बरायणः-इत्याद्या इअन्ताः शब्दाश्च बोध्याः ॥

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228