________________
१७८ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ।
अथ इकारान्तास्तद्धितान्ताः
सप्तदश शब्दाः
द्विव०
(२०६) इकारान्तस्तद्धितान्तः 'दाक्षि' शब्दः । पुल्लिङ्गे
[दक्षस्याऽपत्यं वृद्धं (पौत्रादि ) पुमान् दाक्षिः ] वि० एकव०
बहुव० प्र. दाक्षिः दाक्षी
दाक्षयः द्वि० दाक्षिम्
दाक्षीन् तृ. दाक्षिणा दाक्षिभ्याम् दाक्षिभिः एवमने 'ऋषि' (१७६) वद्रूपाणि वाच्यानि ॥ रूपसाधनिकाऽपि तथैव ॥
ऋषिवाचकदक्षशब्दाद् “ अत इञ्" [६, १, ३१ ] इत्यपत्येऽर्थे. ऽणोऽपवादरूप 'इञ्' प्रत्ययो भवति; तदनु " अवर्णेवर्णस्य " [७, ४, ६८] इत्यन्त्याऽकारलुकि " वृद्धिः स्वरेष्वादेणिति तद्धिते [ ७, ४, १ ] इत्याद्यस्वरवृद्धौ च सत्याम् ‘दाक्षि' इति प्रकृतिस्विष्वपि वचनेष्ववसेया ॥
स्त्रीलिङ्गे तु-दक्षस्याऽपत्यं वृद्धं स्त्री 'दाक्षी' इति, वक्ष्यमाण 'नदी' (२२५) वत् । भन्न " नुर्जातेः " [ २, ४, ७२ ] इति डीभवतीति ॥
दाझरपत्यं युवा 'दाक्षायणः' इति 'जिन' (७४) वत् । अत्र इजन्तदक्षशब्दाचून्यपत्येऽर्थे " यजिजः ” [ ६, १, ५४ ] इत्यायनण् भवतीति ॥
एवं च सर्वत्र सूत्रविशेषाभावे वृद्धेऽपत्येऽर्थे विहितौ यौ यजिजौ तदन्ताधून्यपत्ये आयनण् प्रत्ययो विधेयः । यथा-गाायणः, 'वात्स्यायनः' इत्याचा यजन्ताः शब्दाः; प्लाक्षायणः, औदुम्बरायणः-इत्याद्या इअन्ताः शब्दाश्च बोध्याः ॥