Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० १. सू० १३८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२५
प्राणास्ततो मत्वार्थीयः । प्राणी च तूयं चेति समाहारे इतरेतरयोगे वा द्वंद्व : ततस्तस्याङ्गशब्देन तत्पुरुषः । तत्र समाहारद्व द्व े समाहारस्याङ्गायोगात् समहारिण एवाङ्गसंबन्धो विज्ञायते, इतरेतरयोगे तु द्वंद्वस्यावयवप्रधानत्वात् स्पष्ट एवावयवस्याङ्गसंबन्धः । शङ्खशाङ्खिकादिसमुदायेति शङ्खादीनि वाद्यानि शाङ्खिकादयो वादका: । 'भीवृथि' ३८७ ( उगादि ) इति रेफे ङ ्यां च भेरी । यदा मृदङ्गव शङ्खपटहं चेति क्रियते तदा समाहारो 5 न भवति, तूर्याङ्गसमुदायत्वात् । निराकरणार्थमिति पाणिपरणवावित्यत्र 'प्रप्राणिपश्वादे:' [ ३. १. १३६. ] इति प्राप्तस्य पाणिपरणवयोरप्राणित्वेन स्वत्वात् ।।३.१.१३७।।
चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥ ३.१.१३८ ।।
-10
शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः, प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनमनुवादः, यज्ञकर्मणि शंसितानु- 1 शंसनमित्येके, अनुकरणमित्यपरे अद्यतन्यां परभूतायां यौ स्थेरणौ तयोः अनुकथने कर्तृत्वेन संबन्धिनो ये चरणास्तद्वाचिनां शब्दानां स्वैर्द्वन्द्वोऽनुवादविषय एक एकार्थो भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुम् प्रत्यष्ठात् मौदपैष्पलादम् एषामुदयप्रतिष्ठे कश्चिदनुवदति । चरणस्येति किम् ? उदगुस्ताकिकवैयाकरणाः । स्थेण इति किम् ? अगमन्कठकालापाः 115 अद्यतन्यामिति किम् ? अतिष्ठन्कठकालापाः । अनुवाद इति किम् ? उदगुः कठकालापाः, अप्रसिद्धं कथयति । अन्ये तु स्थेरणोद्यतनी प्रयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति, तन्मते इह न भवति - कटकालापाः प्रत्यष्ठुः, कठकौथुमा उदगुः ।। १३८ ।।
न्या० स० -- चररणस्य । प्रमाणान्तरप्रतिपन्नेति शब्दात् प्रमाणादन्यत् प्रत्य- 20 क्षादि प्रमाणान्तरं तेन प्रतिपन्नम् । शंसितानुशंसनमिति शंसनं शंसः तं करोति णिच्, ततः क्तः, अन्यथा 'वेटोsपत:' [ ४. ४. ६२. ] इतीटो निषेधः । शंसितस्य कथितस्यानुशंसनम् । अनुकरणमिति पूर्वकृतस्य पश्चात् सादृश्येन वा करणं क्रिया । अनुकथने कर्तृत्वेनेति गौणमुख्ययोः इति न्यायात् मुख्यवृत्त्या कर्त्ता लभ्यते । तेन यदा भावे प्रयोगस्तदा प्रत्यष्ठायि कठकालापाभ्यामिति भवति न तु समाहारः । कठकालापमिति 25 करेन कलापिना प्रोक्तं वेदं विदन्त्यऽधीयते वा 'तेन प्रोक्त' [ ६.३.१८१. ] 'तद्वेत्यधीते' [ ६. २. ११७. ] इत्यण् । तस्य प्रोक्तार्थस्य 'कठादिभ्यः ' [ ६.३.१८३. ] इति चाणो लुप् । कालाप इत्यत्र तु 'कलापिकुथुमि' [ ७. ३. २४.] इति इनो लुपि वृद्धौ कालापः ।
horौथुममिति कुथे: 'उद्वटिकुल्यलि' ३५१ ( उणादि ) इति कित्युमे कुथुमं 30
Loading... Page Navigation 1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658