Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
. [पा० २. सू० ६८-१०१.]
भाव्यमिति कथं गायत्रीमित्यत्र द्वितीयेत्याशङ्का । शंसनक्रियापेक्षमिति वाक्ये हि पादं पादं गायत्र्याः शंसतीति गायत्र्याः पादशब्देन संबन्धो यः स पच्छ इति वृत्तौ निवर्त्तते । केवलं पच्छ इति शंसनक्रियाविशेषणत्वेनैवाऽवतिष्ठते अतस्तत्र षष्ठी न भवति । तदऽभावेऽपि कथं द्वितीया ? इत्याह-शंसनेत्यादि ।। ३. २. १७ ॥
शब्दनिष्कघोषमिश्रे वा ॥ ३. २. ६८ ॥
शब्दादिषुत्तरपदेषु पादस्य पदित्ययमादेशो वा भवति । पादयोः शब्दः पच्छब्दः, पादशब्दः, एवं पन्निष्कः, पादनिष्कः, पद्घोषः, पादघोषः, पादाभ्यां मिश्रः पन्मिश्रः, पादमिश्रः ।। ६८ ।।
नस् नासिकायास्त क्ष द्रे ॥ ३. २. ६६ ॥ __नासिकाशब्दस्य तस्प्रत्यये क्षुद्रशब्दे चोत्तरपदे परे नसित्ययमादेशो10 भवति । नासिकया नासिकायां वा नस्तः, नासिकायां नासिकया वा क्षुद्रः नःक्षुद्रः ।। ६६ ।।
येवणे॥ ३. २. १०० ॥
नासिकाशब्दस्य यप्रत्यये वर्णादन्यस्मिन्नभिधेये नसित्त्ययमादेशो भवति । नासिकायै हितं तत्र भवं वा नस्यम् य इति किम् ? नासिक्यं 15 नगरम्, चातुरथिकोऽयं यः । निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहणं भवति । अवर्ण इति किम् ? नासिक्यो वर्णः ।। १०० ।।
शिरसः शीर्षन् ॥ ३. २. १०१॥
शिरस्शब्दस्य शीर्षन्नित्ययमादेशो भवति ये प्रत्यये परे । शिरसि भवः शीर्षण्यः स्वरः, एवं शीर्षण्यो व्रणः, शिरसे हितं शीर्षण्यं तैलम् य इत्येव ? 20 शिरस्तः, सशिरस्कः, निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहणं तेनेहापि न भवति । शिर इच्छति शिरस्यति, तथा हस्तिनः शिर इव शिरो यस्य (स) हस्तिशिराः, तस्यापत्यं स्त्री बाह्वादित्वादिनि शीर्षः स्वरे तद्धिते' [३. २. १०३.] इति शिरसः शो देशे 'अनार्षे वृद्धे'-[२. ४. ७८.]
Loading... Page Navigation 1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658