Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[ पा० २. सू० १४४ - १४६ . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६११
इत्ययमादेशो भवति वा । सह पुत्रेण सपुत्र श्रागतः सहपुत्र प्रागतः, एवं सशिष्य : सहशिष्य श्रागतः, सह लोम्ना वर्तते सलोमकः सहलोमकः, विद्यमानलोक इत्यर्थः । अन्यार्थ इति किम् ? सहयुध्वा, सहकृत्वा, सहकारी, सहजः । कथं सहकृत्वा प्रियोऽस्य सहकृत्वप्रियः प्रियः सहकृत्वास्य प्रिय सहकृत्वेति ? बहुव्रीहौ यदुत्तरपदं तस्मात्पूर्वः सहशब्दो न भवतीति 5 सादेशो न भवति ।। १४३ ।।
योगारम्भाद्वति निवृत्तम् ।
नाम्नि ॥ ३.२. १४४ ।। ं अन्यार्थे समासे उत्तरपदे परे सहशब्दस्य सादेशो भवति, नाम्नि संज्ञायां विषये । सहाश्वत्थेन वर्तते - साश्वत्थम्, सपलाशम्, सशिशपम्, एवंनामानि वनानि, सह रसेन सरसा दूर्वा, । अन्यार्थ 10 इत्येव ? सह चरतीति सहचर: कुरण्टकः, सह दीव्यतीति सहदेवः कुरुः,
. सहदेवा औषधिः, सह जायते सहजन्या अप्सराः ।। १४४ ।।
न्या० स०-नाम्नि | सह चरतीति सहचरः अच् । 'अव्ययं प्रवृद्धादिभिः ' [ ३.१.४८. ] इति समासः । सहदेवा ओषधिरिति 'लिहादिभ्योऽच्, [ ५.१.५०. ] जायते सहजन्या अप्सरा इति ' भव्यगेयजन्य' [ ५. १. ७.] इत्यादिना कर्त्तरि घ्यण् 115 'न जनवध:' [४. ३. ५४.] । इति वृद्ध्यभावः ।। ३. २. १४४ ।।
सह
अदृश्याधिके ॥ ३. २. १४५ ॥
,
अदृश्यं परोक्षम् अधिकमधिरूढम्, तद्वाचिनोरुत्तरपदयोरन्यार्थे समासे सहशब्दस्य सादेशो भवति । अदृश्ये - साग्निः कपोतः सपिशाचा वात्या, राक्षसीका विद्युत्, समुशलो व्रीहिकंसः अधिके, - सद्रोणा खारी, समाष : 20 कार्षापणः, सकाकरणीको माषः । 'सहस्य सोऽन्यार्थे' इत्यनेनैव सिद्धे नित्यार्थं वचनम् ।। १४५ ।।
[३. २. १४३.]
न्या० स० - अदृश्याधिके । व्रीहिकंस इति । कंस इति खार्यादिवत् मानविशेषस्य नाम तत्परिमाणपरिच्छिन्न व्रीहिमध्यगतस्य मुसलस्य प्रवृतत्वाददृश्यता ।। ३. २. १४५ ॥
अकालेऽव्ययीभावें ॥। ३. २. १४६ ॥ सहशब्दस्याकालवाचिन्युत्तरपदेऽव्ययीभावसमासे
सादेशो भवति ।
25
Loading... Page Navigation 1 ... 651 652 653 654 655 656 657 658