Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
बृहद्वृत्ति - लघुम्याससंवलिते
[ पा० २. सू० १५३ - १५५ . ]
यत्परिमाणमस्य यावान्, एवं तावान् ? एतावान् ? 'यत्तदेतदो डावादिः ' [ ७. १. १४६ ] इति डावतौ भविष्यति ।। १५२ ।।
६१४ ]
इदं किमीत्की ॥ ३. २. १५३ ।।
इदंशब्दः किंशब्दश्च दृक्दृशदृक्षेषूत्तरपदेषु परेषु यथासंख्यमीकाररूपः कीकाररूपश्च भवति । अयमिव दृश्यते ईदृक्, ईदृश:, ईदृक्ष:, क इव दृश्यते 5 कीदृक् कीदृशः कीदृक्षः, कथं इदं किं वा परिमाणमस्य इयान् कियान् ? 'इदं किमोरिय किय् चास्य' [७. १. १४८. ] इति भविष्यति ।। १५३ ।।
अनञः क्त्वो यप् ॥। ३. २. १५४ ।।
नञ्वर्जितादव्ययात्पूर्वपदाद्यत्परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशो भवति । प्रकृत्य, प्रहृत्य, उच्चैः कृत्य, नानाकृत्य । निज इति 10 किम् ? प्रकृत्वा, प्रहृत्वा, परमकृत्वा, अनत्र इति नञ्सदृशमव्ययं गृह्यत इति इह नञोऽनव्ययाच्च न भवति । उत्तरपदस्येत्येव ? अलं कृत्वा, खलु
कृत्वा ।। १५४ ।।
न्या० स०-- अनञः क्त्वो० । उच्चैः कृत्य इत्यत्र 'कृगोऽव्यय' [ ५.४. ८४. ] इति क्त्वा । नानाकृत्य इत्यत्र तु 'स्वाङ्गतश्च्व्यर्थ' [ ५. ४. ८६. ] इत्यनेन । परम- 15 कृत्वेति । परमं च तत् कृत्वा चेति कार्यं । 'सन्महत्' [ ३. १. १०७ ] इति समासः । परमं करणं पूर्वं वा, परमस्य करणमित्यत्र तु समासो न स्यात् 'तृप्तार्थपूरण' [३.१. ८५. ] इत्यादावव्ययद्वारेण निषिद्धत्वात् षष्ठीसमासस्य ।। ३. २. १५४ ।।
पृषोदरादयः ॥ ३. २. १५५ ।।
पृषोदर इत्येवंप्रकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्टै : 20 प्रयुज्यमानाः साधवो भवन्ति । पृषदुदरमुदरे वास्य पृषोदरः, पृषत उदरं पृषोदरम्, पृषत उद्वानं पृषोद्वानम्, एवं पृषोद्धारम्, - अत्र तकारलोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्ध:, जीमूतः अत्र वनस्य लोपः, वारिणो वाहको बलाहकः, अत्र पूर्वपदस्य बः उत्तरपदादेश्व ल आदेशः,
ध्यायन्ति तमिति श्राढ्यः, अत्र ध्यस्य ढ्यादेशः, कृछ्रेण दास्यते नास्यते दभ्यते 25 च खलि, दुष्टो दासो नासो दम्भ इति वा दूडास:, दूरगास:, दूडभः, दुष्टं ध्यायति दृढ्यः, एषु पूर्वपदस्य दुसो दूभावः उत्तरपदादेश्व डत्वणत्वढत्वानि दम्भेर्नलोपश्च । ]
Loading... Page Navigation 1 ... 654 655 656 657 658