Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________ 616 ] बृहद्वृत्ति-लवुन्याससंवलिते [पा० 2. सू० 156.] मयूरमहिपादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्युत्पत्तिज्ञापनार्थम् / बहुवचनमाकृतिगणार्थम् / तेन मुहूर्तमारग्वधोऽश्वत्थामनिर्लयनीत्यादयोऽपि द्रष्टव्याः / वर्णागमो वर्णविपर्ययश्च द्वौ चापरो वर्णविकारनाशौ / धातोः तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् / / 155 / / न्या० स०--पृषोदरा०। पृषोद्वानमिति 4 प्रोवें शोषणे'. उद्वायत इति उद्वानं 5 पृषत उद्वानं पृषोद्वानम् / पृषोद्धारमिति घंग रिणगि अच, उद्पूर्वस्य धगो णिगि अचि। यदा उद्धरमिति तदा धगोऽणिगन्तस्य / प्राढय इत्यत्र 'स्थादिभ्यः कः' [ 5. 3. 82.] / आशीविष इति यदापि आश्यतीत्यचि ततो 'गौरादिभ्यो' [2. 4. 16. ] (इति) ङी:, प्राश्यां दंष्ट्रायां विषमस्तीति अथवा आशिषि दंष्ट्रायां विषमस्येति तदाऽप्यनेन निपातनम् / तदर्थाऽतिशयेनेति स प्रसिद्धोऽर्थस्तदर्थः शब्दलक्षणस्तस्यातिशयो माधुर्यादिस्तेन 10 योगः यथा मयूर इति, अत्र हि रौते रवरणार्थस्यातिशयेन योगः। कृकलाश इति 'वा ह्वलादि' इति णः / कृकं लासयतीति ये व्युत्पादयन्ति तन्मते दन्त्यसकारः / महुरियति स्म 'गत्यर्थ' [ 5. 1. 11.] इति क्तः प्रत्ययः। पारात् वध्यते 'स्थादिभ्यः कः' [ 5. 3. 82.] तस्य गः, अश्व इव तिष्ठतीति मन् निलीयतेऽस्यां अनट् / / 3. 2. 155 / / वावाप्योस्तनिकोधाग्नहोर्वपी॥ 3. 2. 156 // 15 अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य च धाग्नहोः परयोर्यथासंख्यं व पि इत्येतावादेशौ वा भवतः / वतंसः, अवतंसः, वक्रयः, अवक्रयः, पिहितम्, अपिहितम्, पिधानम्, अपिधानम्, पिदधाति, अपिदधाति, . पिनद्धम्, अपिनद्धम्, / धातृनियमं नेच्छन्त्येके / पृषोदरादिप्रपञ्च एषः तेन शिष्टप्रयोगोऽनुसरणीयः / / 156 / / 20 इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः / / श्रीमद्वल्लभराजस्य प्रतापः कोऽपि दुःसहः / प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् / / न्या० स०-वावाप्यो। अथ पृषोदरादित्वादेवाऽवाप्यो: पाक्षिके अकारलोपे25 वतंस इत्यादि सिध्यत्येव किमर्थोऽयं योग इत्याह-पृषोदरादीति / शिष्टा उक्तरूपास्तर्यः प्रयुज्यते तदनुसरणादन्यदपि सर्वं सिद्धम् / / 3. 2. 156 // ॐ इत्याचार्यश्रीहेम० लघुन्यासे तृतीयस्याध्यायस्य द्वितीयः पाद: समाप्त: है .
Loading... Page Navigation 1 ... 656 657 658