Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
६१२ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० २. सू० १४७-१४६.]
ब्रह्मणः संपत् सब्रह्म साधूनाम्, एवं सवृत्तं सुविहितानाम्, सक्षत्रं यदूनाम् । संपत्तावव्ययीभावः । युगपच्चक्रेण चक्राणि वा धेहि सचक्रं धेहि, एवं सधुरं प्राजः । यौगपद्येऽव्ययीभावः-तृणैः सह सतृणमभ्यवहरति, एवं समूलघातं हन्ति । साकल्येऽव्ययीभावः । षड्जीवनिकामन्तमवसानं कृत्वाधीते सषड्जीवनिकमधीते श्रावकः, एवं सलोकबिन्दुसारमधीते पूर्वधरः । अन्त इत्यव्ययी- 5 भाव: । अकाल इति किम् ? सहपूर्वाह्न शेते, सहापराल भुङ्क्त । अयमपि साकल्येऽव्ययीभावः । अव्ययीभाव इति किम् ? सहयुध्वा ।। १४६ ।।
न्या० स०--प्रकाले० । समूलघातमिति अत्र मूलानां साकल्यं समूलं हननं 'हनश्च समूलात्' [ ५. ४. ६३. ] णम् । षडजीवनिकामिति षट् संख्या जीवाः तानियतं कायति डः, अथवा जीव्यतेऽनयाऽनटि स्वार्थ के षण्णां प्राणिनां जीवनिका षट्जीवनिका 10 । ३. २. १४६ ।।
ग्रन्थान्ते ॥३. २. १४७ ॥
ग्रन्थस्यान्तो ग्रन्थान्तः, तद्वाचिन्युत्तरपदेऽव्ययीभाव समासे सहशब्दस्य सादेशो भवति । कलामन्तं कृत्वा सकलं ज्यौतिषमधीते, एवं सकाष्ठम्, समुहर्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिषु ग्रन्थेषु वर्तन्त15 इति ग्रन्थान्तवाचित्वमुत्तरपदस्य । अन्त इत्यव्ययीभावः कालार्थ आरम्भः ।। १४७ ।।
नाशिष्यगोवत्सहले ॥ ३. २. १४८ ॥
आशिषि गम्यमानायां गवादिवजित उत्तरपदे परे सहशब्दस्य सादेशो न भवति । स्वस्ति राज्ञे सहराष्ट्राय, स्वस्ति गुरवे सहशिष्याय, भद्र सह-20 संघायाचार्याय । आशिषीति किम् ? सपुत्रः सहपुत्र आगतः। अगोवत्सहल इति किम् ? स्वस्ति भवते सगवे, सहगवे, सवत्साय, सहवत्साय, सहलाय, सहहलाय ।। १४८ ।।
समानस्य धर्मा दिष्ठ ॥ ३. २. १४६ ॥
समानशब्दस्य धर्मादिषूत्तरपदेषु सादेशो भवति । समानो धर्मोऽस्य25 सधर्मा, समानो वा धर्मः सधर्मः, समाना जातिरस्य सजातीयः, समानं नामास्य सनामा, समानं नाम सनाम। धर्म, जातीय, नामन्, गोत्र, रूप,
Loading... Page Navigation 1 ... 652 653 654 655 656 657 658