SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ६१२ ] बृहवृत्ति-लघुन्याससंवलिते पा० २. सू० १४७-१४६.] ब्रह्मणः संपत् सब्रह्म साधूनाम्, एवं सवृत्तं सुविहितानाम्, सक्षत्रं यदूनाम् । संपत्तावव्ययीभावः । युगपच्चक्रेण चक्राणि वा धेहि सचक्रं धेहि, एवं सधुरं प्राजः । यौगपद्येऽव्ययीभावः-तृणैः सह सतृणमभ्यवहरति, एवं समूलघातं हन्ति । साकल्येऽव्ययीभावः । षड्जीवनिकामन्तमवसानं कृत्वाधीते सषड्जीवनिकमधीते श्रावकः, एवं सलोकबिन्दुसारमधीते पूर्वधरः । अन्त इत्यव्ययी- 5 भाव: । अकाल इति किम् ? सहपूर्वाह्न शेते, सहापराल भुङ्क्त । अयमपि साकल्येऽव्ययीभावः । अव्ययीभाव इति किम् ? सहयुध्वा ।। १४६ ।। न्या० स०--प्रकाले० । समूलघातमिति अत्र मूलानां साकल्यं समूलं हननं 'हनश्च समूलात्' [ ५. ४. ६३. ] णम् । षडजीवनिकामिति षट् संख्या जीवाः तानियतं कायति डः, अथवा जीव्यतेऽनयाऽनटि स्वार्थ के षण्णां प्राणिनां जीवनिका षट्जीवनिका 10 । ३. २. १४६ ।। ग्रन्थान्ते ॥३. २. १४७ ॥ ग्रन्थस्यान्तो ग्रन्थान्तः, तद्वाचिन्युत्तरपदेऽव्ययीभाव समासे सहशब्दस्य सादेशो भवति । कलामन्तं कृत्वा सकलं ज्यौतिषमधीते, एवं सकाष्ठम्, समुहर्तम् । कलादिशब्दाः कालविशेषवाचिनोऽपि तत्सहचारिषु ग्रन्थेषु वर्तन्त15 इति ग्रन्थान्तवाचित्वमुत्तरपदस्य । अन्त इत्यव्ययीभावः कालार्थ आरम्भः ।। १४७ ।। नाशिष्यगोवत्सहले ॥ ३. २. १४८ ॥ आशिषि गम्यमानायां गवादिवजित उत्तरपदे परे सहशब्दस्य सादेशो न भवति । स्वस्ति राज्ञे सहराष्ट्राय, स्वस्ति गुरवे सहशिष्याय, भद्र सह-20 संघायाचार्याय । आशिषीति किम् ? सपुत्रः सहपुत्र आगतः। अगोवत्सहल इति किम् ? स्वस्ति भवते सगवे, सहगवे, सवत्साय, सहवत्साय, सहलाय, सहहलाय ।। १४८ ।। समानस्य धर्मा दिष्ठ ॥ ३. २. १४६ ॥ समानशब्दस्य धर्मादिषूत्तरपदेषु सादेशो भवति । समानो धर्मोऽस्य25 सधर्मा, समानो वा धर्मः सधर्मः, समाना जातिरस्य सजातीयः, समानं नामास्य सनामा, समानं नाम सनाम। धर्म, जातीय, नामन्, गोत्र, रूप,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy