Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५९८ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० २. सू० १०५-१०७.]
पिनष्टि उदपेषं पिनष्टि तगरम्, उदकं धीयतेऽस्मिन्निति उदधिः-घटः, वासउदकस्य वासः उदवासः, एवम्-उदवाहनः । अनामार्थं वचनम्, नाम्न्युत्तरेणैव सिद्धम् ।। १०४ ॥
न्या० स०--उदक० । उदवाहन इति उदकं वाहनमस्येति कार्यम् ।।३.२.१०४।। वैकव्यञ्जने पूर्य । ३. २. १०५॥
उदकशब्दस्य पूरयितव्यवाचिन्येकव्यञ्जनेऽसंयुक्तव्यञ्जनादावुत्तरपदे उदादेशो वा भवति । उदकुम्भः, उदककुम्भः, उदघटः, उदकघटः, उदपात्रम्; उदकपात्रम् । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकपर्वतः, उदकदेशः ।। १०५ ।।
न्या० स०-वैकव्यञ्जने। उदकादिना द्रव्येण पूरयितव्यं घटादि पूर्व 10 तत्रोत्तरपदे इति वैयधिकरण्येन संबध्यते । पूर्ये यदुत्तरपदं वर्तते तस्मिन्निति ।।३.२.१०५।। मन्धोदनसक्तुबिन्दुवज्रभारहारवीवधगाहे वा
॥३. २. १०६॥ मन्थादिषूत्तरपदेषदकशब्दस्योदादेशो वा भवति । उदमन्थः उदकमन्थः, उदौदनः, उदकौदनः, उदसक्तुः, उदकसक्तुः, उदबिन्दुः, उदकबिन्दुः, उदवज्रः,15 उदकवज्रः, उदभारः, उदकभारः, उदहारः, उदकहारः, उदवीवधः, उदकवीवधः, उदगाहः, उदकगाहः, अपूर्यार्थो यत्नः ।। १०६ ।।।
न्या० स०-मन्थौदन०। उदमन्थ इति उदकेन मथ्यते कर्मणि घत्रि 'कारक कृता' [ ३. १. ६८. ] इति समासः । उदौदन इति उदकेनोपसिक्त प्रोदनः, 'मयूरव्यंसक' [ ३. १. ११६. ] इति समासः । उपसिक्तक्रियायाश्च वृत्तावन्तर्भावादुदकौदनयो:20 सामर्थ्यम् । उदकवीवध इति वीवधशब्दोऽव्युत्पन्नः पथि पर्याहारे च वर्तते । 'हनो वा वध् च' [ ५. ३. ४६. ] इत्यऽलि वधादेशे बहुव्रीहौ बाहुलकाद् दीर्घत्वे वा वीवधः ।। ३. २. १०६ ।।
नाम्न्युत्तरपदस्य च ॥ ३. २. १०७॥ उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च नाम्नि संज्ञायां विषये उद इत्यय-25
Loading... Page Navigation 1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658