Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
६०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १११-११२.]
प्रापोऽस्मिन्ननूपो देशः । देश इति किम् ? अन्वीपं वनम् । कथं कूपः सूपः यूपः ? पृषोदरादित्वात् ।। ११० ।।
रिखत्यनव्ययारुषो मोऽस्तो ह्रस्वश्च ॥ ३. २. १११॥
अनव्ययस्य अर्थात्स्वरान्तस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो भवति, यथासंभवं ह्रस्वश्चान्तादेशो भवति । ज्ञमात्मानं मन्यते शंमन्यः, 5 पण्डितंमन्यः, मंमन्यः, खट्वंमन्या, महंमन्यः, रात्रिमन्यमहः, द्रु रिंगमन्यः, ग्रामणिमन्यः, वधुंमन्यः, खलपुंमन्यः, क्षेमकरः, मेघंकरः, पाढय भविष्ण :, आढय भावुकः, सुभगंकरणम् । आशितंभवो वर्तते, मितंगमः विहंगमः, पतङ्गः। परत्वात्पुंवद्भावो ह्रस्वत्वेन बाध्यते:-कालिमन्या, हरिणिमन्याः अरुस्-अरु तुदः, खितीति किम् ? पण्डितमानी, सुभगमानी अनव्ययेति10 किम् ? दोषामन्यमहः, दिवामन्या रात्रिः । अव्ययप्रतिषेधात् खिति तदन्तग्रहणम्, न ह्यव्ययात्परः खित्संभवति । अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न भवति, गीर्मन्यः । 'स्वरस्य ह्रस्वदीर्घप्लुताः' इति ह्रस्वः स्वरस्यैव । कृद्ग्रहणे सति गतिकारकस्यापि ग्रहणात्-कूलमद्र जः कूलमुद्वह इत्यत्रापि भवति ।। १११ ।।
न्या० स०--खित्यनव्यया०। ग्रामण्यं खलप्वमात्मानं मन्यते । अर्थादिति . अरुर्ग्रहणादनव्ययानां स्वरान्तत्वं लभ्यते इति । अरुंतुव इति 'बहुविध्वरुर्' [५. १. १२४.] इति खश् । अत्र मोऽन्ते सति 'संयोगस्यादौ' [२. १. ८८. ] इति 'स' लोपः। न शव्ययादिति ननु यथाऽव्ययात् खिन्न संभवत्येवमऽनव्ययादपि न संभवति? न, धातोरनव्ययात् स्यात। तथा च शंमन्य इत्यादौ ज्ञमन्य इति स्यादित्यव्ययप्रतिषेधः समाश्रीयते 120 गीर्मन्य इति नन्वत्र मोऽन्तेऽपि 'पदस्य' [२.१. ८६.] इति लोपे गीर्मन्य इति भविष्यति किं मोन्तप्रतिषेधेन ? उच्यते, 'रात् सः' [ २. १. ६० ] इति नियमाल्लोपो न स्यादिति प्रतिषेधः ।। ३. २. १११ ।।
15
सत्यागदास्तो कारे ॥ ३. २. ११२ ॥
सत्यादिभ्यः कारशब्दे उत्तरपदे परे मोऽन्तो भवति । सत्यं करोति25 सत्यस्य कार इति वा सत्यंकारः, एवमगदंकारः, प्रस्तुंकारः, अस्त्विति निपातः क्रियाप्रतिरूपकोऽभ्युपगमे वर्तते ॥ ११२ ॥
Loading... Page Navigation 1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658