Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० २. सू० ११६-११७.]
गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न संभवति । गिलादिति तु निषेधो गिलान्तस्यापि निवृत्त्यर्थः ।। ११५ ।।
६०२ ]
न्या० स० – अगिला० । तिमिंगिल इति बाहुलकात् 'नाम्युपान्त्य' [ ५. १.५४ . ] इति कः, 'मूलविभुजादय:' [५. १. १४४.] इति वा । गिलगिलशब्दे इति । गिलगिल इत्येवंरूपस्याखण्डस्य विद्यमानत्वात् । नन्वऽगिलादित्यस्य गिलगिल इति प्रत्युदाहरणं 5 युक्त, अत्र गिल : पूर्वपदमस्तीति । तिमिगिलगिल इत्यत्र तु न गिल : पूर्वपदं किन्तु गिलान्त: शब्द इत्याह- गिलं गिलतीत्यादि । गिलगिलेति निर्देशादेव गिलगिले मोऽन्तो नास्तीति न तदर्थमगिलादित्यऽतस्तदन्तस्यैव प्रतिषेधार्थम् । श्रन्यथाऽऽनर्थक्यं स्यादिति । गिलान्तस्यापीति 'अपि' शब्द उक्तसमुच्चये न केवलं गिलान्तस्याऽपिशब्दात् केवलादपि मोऽन्तो न भवतीति । अपि शब्दोऽवधारणेऽन्यथा वर्जनानर्थक्यमिति तु न्यासः । यं 10 वागिलस्येति विशेषरणत्वात् तदन्तस्य निषेध:, अन्यथोत्तरपदसन्निधापितपूर्वपदस्य केवलस्यैव निषेधः स्यात् । यथा दिग्धपादोपहतः । गिलस्य गिल: गिलं गिलति गिलगिल इत्यत्र तु आद्यन्तवदुपचारात् ।। ३. २. ११५ ।।
I
भदोष्णात्करणे ॥। ३. २.११६ ॥
भद्रशब्दादुष्णशब्दाच्च कररणशब्दे उत्तरपदे मोऽन्तो भवति ।
भद्रस्य 15
करणं भद्रं करणम्, एवमुष्णंकरणम् ।। ११६ ।।
न्या० स० - भद्रोष्णा० । भद्रंकररणमिति कृतिः करणं क्रियतेऽनेनेति वा ततो भद्रोष्णयोः कर्म्मषष्ठ्यन्तयोः 'कृति' [ ३. १.७७ ] इति समास: ।। ३. २. ११६. ।।
नवाखित्कृदन्ते रात्रेः ।। ३. २. ११७ ।।
रात्रिशब्दस्य खिद्वजितकृदन्ते उत्तरपदे मोऽन्तो वा भवति । रात्रौ 20 चरति रात्रिचरः, रात्रिचरः, रात्रिचरी, रात्रिचरी, रात्रावट:, रात्रिमटः, रात्र्यटः, रात्रिमटति - रात्रिमाटः, रात्र्याटः, रात्रः करणम् - रात्रिकरणम्, रात्रिकरणम् । खिद्वर्जनं किम् ? रात्रिमन्यमहः, 'खित्यनव्यय'इत्यादिना नित्यमेव भवति । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रिरिवाचरति क्विप्, लुक्, तृच्, 25 रात्रयिता । इदमेवान्तग्रहणं ज्ञापकम् इहोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययस्यैव ग्रहणं, न तदन्तस्य तेन 'कालात्तनतरतम' - [ ३. २. २४.] इत्यादौ प्रत्ययमात्रस्यैव ग्रहणं सिद्धम्, 'न नाम्येकस्वरात् खिति' - [ ३. २. 8. ] इत्यादी
[ ३. २. १११ ]
Loading... Page Navigation 1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658