Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
बृहद्वृत्ति - लघुन्याससंवलिते
ईयकारके ॥ ३.२. १२१ ॥
पृथग्योगादषष्ठीतृतीयादिति निवृत्तम्, अन्यशब्दादीये प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः, गहादित्वादीयः, अन्यस्मै हितमन्यदीयम्, अन्यस्यान्येन वा कारकः अन्यत्कारकः, अन्यः कारकः अन्यत्कारकः, अन्यत्कारिका ।। १२१ ।।
६०४ ]
[ पा० २. सू० १२१-१२३.]
5
न्या० स० -- ईयकारके । अन्यस्य अन्येन वा कारकेति याजकादिभिः ' [ ३. १. ७८. ] 'कारकं कृता' [ ३. १. ६८ ] च समासः ।। ३२. १२१ ।।
सर्वा दिविष्वग्देवाद्रः क्व्यञ्चौ । ३. २. १२२ ।।
सर्वादिविष्वग्देवशब्दाभ्यां च परः क्विबन्तेऽञ्चतावुत्तरपदे परे डद्रिरन्तो भवति । सर्वमञ्चति सर्वद्युङ्, सर्वञ्चौ सर्वद्यञ्चः, सर्वद्रीचः, सर्व - 10 द्रीचा, सर्वद्रीची, एवं तद्युङ्, तद्युञ्चौ तद्यञ्चः, तद्रीचः, तद्रीचा, तद्रीची, अदद्युङ्, प्रदद्यञ्चौ, प्रदद्यञ्चः प्रदद्रीचः, प्रदद्रीचा, प्रदद्रीची, कछङ्, कद्युञ्चौ, कयञ्चः, कद्रीचः, कद्रीचा, द्वद्यङ्, द्वयञ्चौ द्वयञ्चः, विषू अवतीति विष:, - विष्वमञ्चति विष्वङ्, विष्वगित्यव्ययं वा विष्वगञ्चति विष्वद्युङ्, विष्वञ्चौ विष्वद्यञ्चः, विष्वद्रीचः, विष्वद्रीचा, विष्वद्रीची, 15 देवानञ्चतीति - देवद्युङ्, देवद्यञ्चौ, देवद्यञ्चः, देवद्रीचः, देवद्रीचा, देवद्रीची, सर्वादिविष्वग्देवादिति किम् ? अश्वमञ्चति श्रश्वाची, विष्वमञ्चति विषूची । अञ्चाविति किम् ? विश्वयुक्, विष्वग्युक्, देवयुक् । क्वीति किम् ? विष्वगञ्चनम् । 'धातुग्रहणे तदादेः समुदायस्य ग्रहणं प्राप्नोति' इति क्वीत्युक्तम् । डकारोऽन्त्यस्वरादिलोपार्थः ।। १२२ ।।
20
न्या० स० - - सर्वादिविष्वग् । सर्वेषु 'ङस्युक्तम्' [ ३. १४६ ] इत्युपपदसमासस्य नित्यत्वेन नित्यमेकपदत्वे 'ह्रस्वोऽपदे वा' [ १. २. २२. ] इति न ह्रस्वो safरकारस्येति । *नामग्रहणे इति न्यायस्यानित्यत्वाद् विषूचीशब्दान्न डद्रिः । तस्मिन् सति हि विषूचद्रयङिति अनिष्टं रूपं स्यात्, यदा सर्वाऽमञ्चतीति देवीमञ्चतीति क्रियते तदा डद्रिर्भवत्येव यतोऽत्रामुळे न्यायं मन्यन्ते ।। ३ २ १२२ ।।
सहसमः सधिसमि ।। ३. २. १२३ ।।
सहसम् इत्येतयोः स्थानेऽञ्चतौ क्विबन्ते उत्तरपदे परे यथासंख्यं सधि
25
Loading... Page Navigation 1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658