SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते ईयकारके ॥ ३.२. १२१ ॥ पृथग्योगादषष्ठीतृतीयादिति निवृत्तम्, अन्यशब्दादीये प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः, गहादित्वादीयः, अन्यस्मै हितमन्यदीयम्, अन्यस्यान्येन वा कारकः अन्यत्कारकः, अन्यः कारकः अन्यत्कारकः, अन्यत्कारिका ।। १२१ ।। ६०४ ] [ पा० २. सू० १२१-१२३.] 5 न्या० स० -- ईयकारके । अन्यस्य अन्येन वा कारकेति याजकादिभिः ' [ ३. १. ७८. ] 'कारकं कृता' [ ३. १. ६८ ] च समासः ।। ३२. १२१ ।। सर्वा दिविष्वग्देवाद्रः क्व्यञ्चौ । ३. २. १२२ ।। सर्वादिविष्वग्देवशब्दाभ्यां च परः क्विबन्तेऽञ्चतावुत्तरपदे परे डद्रिरन्तो भवति । सर्वमञ्चति सर्वद्युङ्, सर्वञ्चौ सर्वद्यञ्चः, सर्वद्रीचः, सर्व - 10 द्रीचा, सर्वद्रीची, एवं तद्युङ्, तद्युञ्चौ तद्यञ्चः, तद्रीचः, तद्रीचा, तद्रीची, अदद्युङ्, प्रदद्यञ्चौ, प्रदद्यञ्चः प्रदद्रीचः, प्रदद्रीचा, प्रदद्रीची, कछङ्, कद्युञ्चौ, कयञ्चः, कद्रीचः, कद्रीचा, द्वद्यङ्, द्वयञ्चौ द्वयञ्चः, विषू अवतीति विष:, - विष्वमञ्चति विष्वङ्, विष्वगित्यव्ययं वा विष्वगञ्चति विष्वद्युङ्, विष्वञ्चौ विष्वद्यञ्चः, विष्वद्रीचः, विष्वद्रीचा, विष्वद्रीची, 15 देवानञ्चतीति - देवद्युङ्, देवद्यञ्चौ, देवद्यञ्चः, देवद्रीचः, देवद्रीचा, देवद्रीची, सर्वादिविष्वग्देवादिति किम् ? अश्वमञ्चति श्रश्वाची, विष्वमञ्चति विषूची । अञ्चाविति किम् ? विश्वयुक्, विष्वग्युक्, देवयुक् । क्वीति किम् ? विष्वगञ्चनम् । 'धातुग्रहणे तदादेः समुदायस्य ग्रहणं प्राप्नोति' इति क्वीत्युक्तम् । डकारोऽन्त्यस्वरादिलोपार्थः ।। १२२ ।। 20 न्या० स० - - सर्वादिविष्वग् । सर्वेषु 'ङस्युक्तम्' [ ३. १४६ ] इत्युपपदसमासस्य नित्यत्वेन नित्यमेकपदत्वे 'ह्रस्वोऽपदे वा' [ १. २. २२. ] इति न ह्रस्वो safरकारस्येति । *नामग्रहणे इति न्यायस्यानित्यत्वाद् विषूचीशब्दान्न डद्रिः । तस्मिन् सति हि विषूचद्रयङिति अनिष्टं रूपं स्यात्, यदा सर्वाऽमञ्चतीति देवीमञ्चतीति क्रियते तदा डद्रिर्भवत्येव यतोऽत्रामुळे न्यायं मन्यन्ते ।। ३ २ १२२ ।। सहसमः सधिसमि ।। ३. २. १२३ ।। सहसम् इत्येतयोः स्थानेऽञ्चतौ क्विबन्ते उत्तरपदे परे यथासंख्यं सधि 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy