Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 589
________________ [पा० २. सू० ५-७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४७ ऋद्धनदीवंश्यस्थ ॥ ३. २. ५ ॥ ऋद्धं समृद्धम्, यस्य समृद्धिः सुशब्दादिना द्योत्यते, तदन्तस्य, नद्यन्तस्य, वंश्यान्तस्य चाकरान्तस्याव्ययीभावस्य सम्बन्धिन्याः सप्तम्याः स्थानेऽमादेशो भवति । ऋद्धं-मगधानां समृद्धिः, सुमगधं वसति, सुमद्र वसति,। नदीउन्मत्ता गङ्गा यस्मिन्नुन्मत्तगङ्ग देशे वसति, एवं लोहितगङ्गम्, शनैर्गङ्गम्, 5 तूष्णींगङ्ग वसति, द्वे यमुने द्वियमुनं वसति, एवं सष्ठगोदावरम् । वंश्य, एकविंशतिर्भारद्वाजा वंश्याः एकविंशति भारद्वाजं वसति । एवं त्रिपञ्चाशद्गौतमम्, त्रिकोशलम्, प्रतिपदोक्तस्यैव ग्रहणादिह न भवति । उपगङ्ग, उपयमुने पूर्वेण तु विकल्पो भवत्येव । नित्यार्थं वचनम् ।। ५ ।। न्या० स०--ऋद्धनदी०। भारद्वाजमिति भरन्तं वाजयति भरद्वाजः 'तस्येदम्'10 [६. ३. १६०. ] इत्यणि । बिदाधनि तु 'यात्रः' [ ६. १. १२६. ] इति लुप् स्यात् । भारद्वाजादिषु त्रिषु पूर्वपदार्थप्राधान्याद् बहुवचनं सुप् तस्याऽम् ॥ ३. २. ५ ॥ अनतो लप ॥ ३. २. ६ ॥ अकारान्तं वर्जयित्वान्यस्याव्ययीभावस्य संबन्धिनः स्यादेर्लुब् भवति । स्त्रीषु अधिस्त्रि, उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात्,15 उपकुम्भाभ्याम्, उपकुम्भेभ्यः, उपकुम्भेन, उपकुम्भे। तत्संबन्धिविज्ञानादिह न भवति, प्रियोपवधुः । अत्युपवधुः ।। ६ ।। अव्ययस्य ॥ ३. २. ७ ॥ अव्ययसंबन्धिनः स्यादेर्लुप् भवति । स्वः, प्रातः, उच्चैः, परमोच्चैः । कृत्वा। भोजभोजम् व्रजति, ततः, तत्र, कथं, ब्राह्मणवत्, पचतितराम्,20 द्विधास्ति । तत्संबन्धिविज्ञानादिह न भवति, अतिस्वरः, अत्युच्चैसः। अत एव लुविधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । ततश्चाथो स्वस्ते गृहम्, अथोच्चैर्मम (मे) गृहमित्यादौ 'सपूर्वात्प्रथमान्ताद्वा' [२. १. ३२.] इति विकल्पेन ते मे आदेशौ पदसंज्ञा च सिद्धा भवति ।। ७ ॥

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658