Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 618
________________ ५७६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ५६.] न्या० स०-रिति०। ननु रानुबन्धा ये प्रत्ययाः ते पानुबन्धाः क्रियन्तां ततश्च 'क्यङमानि०' [३. २. ५०. ] इति पुवद्भावसिद्धौ रितीति सूत्रं न कार्यम् ? सत्यं, यदि पानुबन्धाः क्रियन्ते तदा माथुरी प्रकारोऽस्या इति कृते 'तद्धितः स्वर' [३. २. ५५.] इति निषेधः प्राप्नोति तद्बाघनाथं विधीयते । अप्राप्तप्रापणार्थोऽयमारम्भः। ननु मद्रकजातीया इत्यादिषु 'तद्धिताककोपान्त्य' [ ३. २. ५४. ] इत्यादिभिः 5 भवति ! उच्यते, सर्वबाधनार्थं चैतत् वचनमन्यथा क्यङमानिरित्पित्तद्धिते इत्येकमेव योगं कुर्यात् ।। ३. २. ५८ ।। त्वते गुणः ॥ ३. २. ५६ ॥ परतः स्त्र्यनूङ् गुणवचनः शब्दस्त्वत इत्येतयोः प्रत्यययोः परयोः पुमान् भवति । पव्याः भावः पटुत्वम्, पटुता, एन्याः भावः एतत्वम्, एतता,10 श्येन्याः भावः-श्येतत्वम्, श्येतता। त्वत इति किम् ? पट्वीरूप्यम्, पट्वीमयम् । गुण इति किम् ? कठीत्वम्, कठीता, दत्तात्वम्, दत्ताता, कीत्वम्, कीता। केचित्तु जातिसंज्ञाजितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति,पाचिकायाः भावः-पाचकत्वं, पाचकता, मद्रिकायाः भावः-मद्रकत्वम्, मद्रकता, आनुकूलिक्याः भाव प्रानुकूलिकत्वम्, प्रानुकूलिकता, पाक्षिक्याः-पाक्षिकत्वम्,15 आक्षिकता, द्वितीयायाः द्वितीयत्वम्, द्वितीयता, पञ्चम्याः पञ्चमत्वम्, पञ्चमता, माथुर्या:-माथुरत्वम् माथुरता, स्रोग्घ्न्याः -स्रोग्घ्नत्वम्, स्रोग्घ्नता, चन्द्रमुख्या:-चन्द्रमुखत्वम्, चन्द्रमुखता, सुकेश्याः -सुकेशत्वं, सुकेशता । . सैन्याः श्रियामनुपभोगनिरर्थकत्व-मिथ्यापवादममृजन् वननिम्नगानाम् । सस्नुः पयः पपुरनेनिजुरम्वराणि, जक्षुर्बिसन्धृतविकाशिबिसप्रसूनाः ।। १ ।।20 तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभक्त यदुकलं दधानः । तदधिवसति मा गाः कामिनां मण्डनश्री जति हि सफलत्वं वल्लभालोकनेन।।२।। तथा-रसवत्या धूमवत्त्वम्, भुवस्तृणवत्त्वम् शालाया दण्डित्वमित्यादौ ।। ५६ ।। न्या० स०--त्वते गुरणः। अनुकूलं वर्त्तते 'तं प्रत्यनोर्लोम' [७.४. २८. 125 इति इकण् । अत्र यथा 'भावे त्वतल' [७. १.५५.] इति विहितस्तल् गृह्यते तथा 'देवात्तल'

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658