Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 634
________________ बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० २. ] ५६२ ] कृते षोडन्निति शब्दान्तरं नकारान्तं राजन्शब्दवन्निपातयन्ति । ततश्च षोडानमिच्छतीति क्यनि, नकारलोपे ईत्वे च षोडीयतीति सिद्ध्यतीति मन्यन्ते । षड्भिः प्रकारैः षोढा, षड्ढा, अत्र धाप्रत्यये षषोऽन्तस्य वोत्वं धकारस्य तु नित्यं ढत्वम् । यत्तु षड्धेति रूपं न तत् धाप्रत्यये किं तु षड् दधाति धयति वेति 'श्रतो डोऽह वावाम:' [ ५.१.७६ ] इति डे कृते स्त्रियामापि च 5 भवति, निपातनस्य चेष्टविषयत्वादत्रोत्वढत्वे न भवतः ।। ६१ ।। न्या० स० -- एकादश० । उत्तरपदादिष्विति । प्रदिपदाद्धाप्रभृतिप्रत्ययानां ग्रहः । एकोत्तरा दशेति प्रत्रोत्तरशब्दोऽधिकवचनः । नकारान्तमिति स्वमते तु तकांरान्तो निपातः ॥। ३. २. ६१ ।। दिवत्र्यष्टानां द्वाप्रयोटा प्राक् शतादनशीतिबहु- 10 व्रीहौ ॥ ३.२. ६२ ॥ पञ्चदश । द्वित्रि अष्टन् इत्येतेषां यथासंख्यं द्वा त्रयस् अष्टा इत्येते प्रदेशा प्राक् शतात् संख्यायामुत्तरपदे भवन्ति, 'अनशीतिबहुव्रीहौ' अशीति बहुव्रीहिसमासविषयं चोत्तरपदं वर्जयित्वा । द्वाभ्यामधिका दश द्वौ च दश चेति वा द्वादश, एवं द्वाविंशतिः, द्वात्रिंशत्, त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत्, अष्टादश, 15 अष्टाविंशतिः, अष्टात्रिंशत् । द्वित्र्यष्टानामिति किम् ? प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टशतम्, द्विसहस्रम् । त्रिसहस्रम् अष्टसहस्रम्, अनशीति बहुव्रीहाविति किम् ? द्वयशीतिः, त्र्यशीतिः, द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, अष्टनवाः, द्विर्दश द्विदशा, एवं त्रिदशाः । प्राक्शतादित्यवधेः संख्यापरिग्रहादिह न भवति, द्वैमातुरः, त्रैमातुरः, 20 अष्टमातुरः, द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य ।। ६२ ।। न्या० स०--- द्विश्यष्टानां० | संख्यायामुत्तरपदे इति पूर्वपदस्य साक्षादेव निर्देशात् प्राक् शतादित्यवधेरनशीतिपर्युदासादशीतेः संख्यायाः प्रतिषेधात् संख्यारूपस्यैवोत्तरपदस्य ग्रहणम् । विंशतिरिति द्वौ दशतौ मानमस्या: 'विंशत्यादय:' [६.४.१७३.] देशदर्थे विम्भावः शतिश्च प्रत्ययः ।। ३. २. ९२ ।। 25

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658