Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 620
________________ ५७८ ] बृहद्वृत्ति-लघुम्याससंवलिते [पा० २. सू० ६२-६३.] स्त्रियामाप् न भवति । एवं यथा तदेत्यादि। परत्वादिति कल्याणीप्रियेत्यादौ 'नाप्रियादौ' | ३.२.५३. ] इत्यादिप्रतिषेधः सावकाशः। भवत्पत्र इत्यादौ त्वयं । सर्वा प्रियाऽस्य सर्वप्रिय इत्यादौ तुभयप्राप्तौ द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुभाव इत्यर्थः । कन्यापुरमिति कन्याशब्दो व्याकरणे कन्य इति पुमानपि प्रसिद्ध इति 'परतः स्त्री' [ ३. २. ४६. ] इति । अस्यादाविति किमिति न च स्याद्युत्पत्तेः प्रागेवात्र पुभावः 5 कथं न भवतीति वाच्यं । अस्यादाविति वचनात् । यतः परः स्यादिः प्रयुज्यते तस्य पुभावो न भवति। अन्यथाऽस्यादावित्यस्यानर्थक्यं स्यात् । अथोत्तरपदे परे इत्यनुवर्तनात् सर्वस्यै दक्षिणपूर्वस्यै इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावो न भविष्यति किमऽस्यादावित्यनेन ? सत्यं, अत एव सर्वस्य इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्त्यर्थादऽस्यादाविति वचनादऽत्रोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादावपि10 पुभावः सिद्धः। न च अस्याःपुत्र इत्याक्रोशे षष्ठ्या अलुप्युत्तरपदे पुभावनिषेधार्थमऽस्यादाविति वाच्यं, अत्र विभक्त्या व्यवधानादत्तरपदे सर्वाद्यऽभावात । एतदर्थत्वे च ड प्रतिषेध एव कर्तव्यः स्यानास्यादाविति । दक्षिणोत्तरपूर्वाणामिति 'न सर्वादिः' [१. ४. १२.] इति सर्वादित्वाभावः । सर्वस्य । दक्षिणपूर्वस्यै इत्युक्त ततश्चात्र पुवद्भावः स्वयमेव न भविष्यति। सर्वादेर्ड स्पूर्वेति स्विधानात्, अन्यथा आबन्तत्वाभावात् स15 न स्यात् ? उच्यते, यदा सर्वाशब्दादऽग्रे भ्यस् तदापि पुवत् माभूत् इत्यस्यादिग्रहणम् ।। ३. २. ६१ ।। मुगक्षीरादिष्ठ वा ॥ ३. २. ६२ ॥ मृगक्षीरादिसमासशब्देषु परत: स्त्रीलिङ्गमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम्-मृगीक्षीरम्, एवं मृगपदम्, मृगीपदम्, 20 मृगशावः, मृगीशावः, कुक्कुटाण्डम्, कुक्कुटयण्डम्, मयूराण्डम्, मयूर्यण्डम्, काकाण्डं, काक्यण्डम्, काकशावः, काकीशावः । पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्रानारम्भे मृगक्षीरादयो न सिद्ध्यन्ति, मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ।। ६२ ।। न्या० स०--मृगक्षीरा०। पुंस्त्रीलिङ्गति ननु मृगस्य पदं मृगपदं मृग्याः पदं25 मृगीपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का। मृगक्षीरादय इति आदिशब्दात् मयूराण्डमित्यादि । एतच्च मृग्याः क्षीरमिति कृते द्रष्टव्यम् ।। ३. २. ६२ ।। ऋदुदितरतमरूपकल्पब्रुवचेलगोत्रमतहते वा हस्वश्च ॥३. २. ६३ ॥ ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्तरादिषु प्रत्ययेषु ब्रुवादिषु च30

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658