Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 629
________________ [पा० २. सू० ८०-८४.] श्रोसिद्धहेमचन्द्रशम्दानुशासने तृतीयोऽध्यायः [ ५८७ 10 नरे ॥ ३. २. ८० ॥ विश्वशब्दस्य नरशब्दे उत्तरपदे नाम्नि विषये दीर्घोऽन्तादेशो भवति । विश्व नरा अस्य विश्वानरो नाम कश्चित् । नर इति किम् ? विश्वसेनः । नाम्नीत्येव ? विश्वनरो राजा ।। ८० ।। वसुराटोः ॥ ३. २. ८१॥ . पृथग्योगान्नाम्नीति निवृत्तम, विश्वशब्दस्य वसौ, राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्व वस्वस्य विश्वावसुः, विश्वस्मिन् राजते इति विश्वाराट् ! राडिति विकृतनिर्देशादिह न भवति । विश्वराजौ, विश्वराजः ।। ८१ ।। वलच्यपित्रादेः ॥ ३. २. ८२ ॥ . वलच्प्रत्यये परे पित्रादिजितानां स्वरान्तानां शब्दानां दीर्घोऽन्तादेशो भवति । प्रासुतिः सुरा साऽस्थास्तीत्यासुतीवलः, एवम् कृषीवलः, दन्तावलः, उत्सङ्गावलः, पुत्रावलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः, भ्रातृवलः, उत्साहवलः । चकारः किम् ? उत्तरपदे माभूत् कायवलम्, नागवलम् ।। ८२॥ न्या० स०-वलच्य०। आसवनमासुतिः 'समिणासुगः' [५. ३. ६३.] क्तिः प्रत्ययः । कृष्यादिभ्यो वलच् । चकारः किमिति प्रत्ययाऽप्रत्यययोः इति न्यायस्तु कादाचित्क इत्याह-उत्तरेति ।। ३. २. ८२॥ चिते. कचि ॥ ३. २. ८३ ।। चितिशब्दस्य कचि प्रत्यये परे दीर्घोऽन्तादेशो भवति । एका20 चितिरस्मिन् एकचितीकः, द्विचितीकः, त्रिचितीकः ॥ ८३ ॥ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रस. वस्वस्तिकस्य कर्ण ॥ ३. २. ८४ ॥ स्वामी चिह न्यते येन तत्स्वामिचिह्नम्, तद्वाचिनो विष्टादिवजितस्य 15

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658