________________
[पा० २. सू० ८०-८४.]
श्रोसिद्धहेमचन्द्रशम्दानुशासने तृतीयोऽध्यायः [ ५८७
10
नरे ॥ ३. २. ८० ॥
विश्वशब्दस्य नरशब्दे उत्तरपदे नाम्नि विषये दीर्घोऽन्तादेशो भवति । विश्व नरा अस्य विश्वानरो नाम कश्चित् । नर इति किम् ? विश्वसेनः । नाम्नीत्येव ? विश्वनरो राजा ।। ८० ।।
वसुराटोः ॥ ३. २. ८१॥ .
पृथग्योगान्नाम्नीति निवृत्तम, विश्वशब्दस्य वसौ, राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्व वस्वस्य विश्वावसुः, विश्वस्मिन् राजते इति विश्वाराट् ! राडिति विकृतनिर्देशादिह न भवति । विश्वराजौ, विश्वराजः ।। ८१ ।।
वलच्यपित्रादेः ॥ ३. २. ८२ ॥ . वलच्प्रत्यये परे पित्रादिजितानां स्वरान्तानां शब्दानां दीर्घोऽन्तादेशो भवति । प्रासुतिः सुरा साऽस्थास्तीत्यासुतीवलः, एवम् कृषीवलः, दन्तावलः, उत्सङ्गावलः, पुत्रावलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः, भ्रातृवलः, उत्साहवलः । चकारः किम् ? उत्तरपदे माभूत् कायवलम्, नागवलम् ।। ८२॥
न्या० स०-वलच्य०। आसवनमासुतिः 'समिणासुगः' [५. ३. ६३.] क्तिः प्रत्ययः । कृष्यादिभ्यो वलच् । चकारः किमिति प्रत्ययाऽप्रत्यययोः इति न्यायस्तु कादाचित्क इत्याह-उत्तरेति ।। ३. २. ८२॥
चिते. कचि ॥ ३. २. ८३ ।।
चितिशब्दस्य कचि प्रत्यये परे दीर्घोऽन्तादेशो भवति । एका20 चितिरस्मिन् एकचितीकः, द्विचितीकः, त्रिचितीकः ॥ ८३ ॥ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रस.
वस्वस्तिकस्य कर्ण ॥ ३. २. ८४ ॥ स्वामी चिह न्यते येन तत्स्वामिचिह्नम्, तद्वाचिनो विष्टादिवजितस्य
15