Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 630
________________ ५८८ ] कर्णशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । दात्रमिव दात्रम्, दात्रं चिह्न कर्णे यस्य स दात्रमिव वा करण यस्य स दात्राकर्णः पशुः, एवं शङ्ककर्णः, द्विगुणाकर्णः, द्व्यङ्गुलाकर्णः । स्वामिचिह्नस्येति किम् ? शोभनकर्णः । स्वामिग्रहणं किम् ? लम्बकर्णः प्रविद्धकर्णः शिशुः । चिह्नग्रहणं किम् ? वाहनस्य कर्णः वाहनकर्णः विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः, 5 पञ्चकर्णः, भिन्नकः, छिन्नकः, छिद्रकर्णः, स्रुवकर्णः, स्वस्तिककर्णः । कर्ण इति किम् ? चक्रसक्थः ।। ८४ ।। बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० ८४.] न्या० स०-- स्वामि० । चिह्न करोति णिज् ततः स्वामी चिह्नयते येन 'वर्षादय: क्लोबे' [५. ३. २६ ] इत्यल् । तद्वाचिन इति कर्णस्य यथा स्वरूपेरण ग्रहणं नैवं स्वामिचिह्नस्य । एतच्च विष्टादीनां चिह्नवाचिनां दीर्घप्रतिपधात् ज्ञायते 110 स्वरूपग्रहणे हि विष्टादीनां प्रतिषेधो व्यर्थः स्यात् । द्विगुणाकर्ण इति द्विगुणं चिह्न कर्णे यस्य । द्वयङ्गुलाक इति द्व े अङगुले मानमस्य द्व े अङगुली मानमस्येति वा वाक्ये तद्धितप्रत्यये विषयभूते 'संख्याव्ययादङ गुले:' [ ७. ३. १२४ ] इति डः । पश्चान्मात्रट्, 'द्विगोः संशये च' [ ७. १. १४४.] इति लुप् द्वयङगुलं कर्णयोर्यस्य यद्वा द्वयोरङ्गुल्यो: समाहारः 'संख्याव्ययादङ गुलेर्ड : ' [ ७. ३. १२४ ] द्व्यङ्गुलं 15 कर्णे यस्य । शोभनक इति शोभनत्वमनेकविधमिति तच्चिह्नमपि न भवति । लम्बकत्वं त्वेकविधमिति चिह्न भवति परं न स्वामिन इति परस्परं सादृश्यं नास्ति । वाहनक , इति उद्यते तेन करणेऽनट् 'वाह्याद्वाहनस्य' [२. ३. ७२. ] इति निर्देशाद् दीर्घः । यद्वा वहनमेव 'प्रज्ञादिभ्योऽण' [ ७. २. १६५ ] यवा वाह्यते तदिति रिगन्तात् भुजिपत्यादित्वादनटि वाहनम् । विष्टकरण इत्यादि विष्टं प्रविष्टं20 व्याप्तं वा चिह्न कर्णे यस्य विशेविषरशौटेश्च कर्मरिण तो विष्टाष्टशब्दौ । संख्यावचनो वाऽष्टशब्दः । एवं पञ्चशब्दोऽपि । भिश्छिदेश्च क्त 'रदादमूर्च्छ' [ ४ २. ६६. ] इति दतयोर्नत्वे छिन्नभिन्नो छिदे: 'ऋज्यजि' ३८८ ( उणादि ) इति रे छिद्रं स्रवत्यस्मादिति 'निघृषि' ५११ ( उणादि ) इति किति वप्रत्यये स्त्रवः । स्वस्तिशब्दोऽव्ययं स्वस्ति कायति स्वस्तिकः । विष्टं कर्णे यस्य । प्रष्टं कर्णे यस्य । संख्यापक्षे तु प्रष्टौ25 कर्णेऽस्य । अष्टपञ्चशब्दौ चाऽत्र प्रष्टगुणे पञ्चगुणे च चिह्नविशेषे वर्त्तते । भिन्नौ avitrea । छिन्नौ कण्णौ यस्य भेदच्छेदौ हि स्वामिविशेषज्ञापनाय कर्णयोः क्रियेते । एवं छिद्रमपि । स्रवाकारं चिह्न स्रुवेणोच्यते । स्वस्तिकः साक्षादेव चिह्न तत्कर्णे यस्य । चक्रसक्थ इति चक्रं सक्थनि अस्य 'सक्थ्यक्ष्णः स्वाङ्ग े ट:' [ ७. ३. १२६. ] ।। ३. २. ८४ ॥ 30

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658