Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 623
________________ [पा० २. सू० ६७-६८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८१ इत्यनुवर्तते । एकस्वरस्य यन्तस्य तरादिषु प्रत्ययेषु, ब्र वादिषु चोत्तरपदेषु स्त्र्येकार्थेषु ह्रस्वोऽन्तादेशो भवति वा। स्त्रितरा, स्त्रीतरा, ज्ञस्य भार्या ज्ञी, ज्ञितमा, जीतमा, अस्यापत्य स्त्री ई, इरूपा, ईरूपा, कस्य भार्या की, किकल्पा, कीकल्पा, जिब्र वा, ज्ञोब्र वा, इचेली, ईचेली, किगोत्रा, कीगोत्रा, स्त्रिमता, स्त्रीमता, स्त्रिहता, स्त्रीहता-एकस्वरोणामिति किम् ? कुटीतरा, द्रुणीतमा, 5 आमलकीतरा, बदरीतमा, कवलीरूपा । ङ्य इत्येव ? श्रीतरा, हीतमा, धीरूपा, एकार्थ इत्येव ? स्त्रिया हता-स्त्रीहता। नित्यदितामनेकस्वराणामपीच्छन्त्येके, तन्मते,--प्रामलकितरा, बदरितमा, कुवलिरूपा, लक्ष्मिकल्पा, तन्त्रितरेत्याद्यपि भवति ।। ६६ ।। न्या०स०--नवैक०। ज्ञीतमा कीकल्पा इत्यादौ ह्रस्वविकल्पपक्षे पुवन भवति,10 धवयोगे यां पश्चात्संज्ञाविवक्षायां 'तद्धिताकको' [३. २. ५४.] इति निषेधात् कौण्डिन्यागस्त्ययोरिति ज्ञापकेन पुभावाऽनित्यत्वाद्वा । ईरूपा इत्यत्र तु गोत्रं च चरणः सहेति जातित्वे 'स्वाङ्गान्डी:' [ ३. २. ५६. ] इति निषेधात् रूपसाम्याद्वा न पुवत् । ईचेलीत्यत्रापि 'पुवत्कर्मधारये' [ ३. २.५७. ] इत्यनेन प्राप्त: पूभावोऽनित्यत्वान्न भवति । कुटीतरेति परतः स्त्रीत्वाभावात् 'ड्यः' [ ३. २. ६४. ] इत्यपि नित्यं ह्रस्वो न15 भवति ।। ३. २. ६६ ।। ऊडः ॥ ३. २.६७ ॥ ऊङन्तस्य तरादिषु प्रत्ययेषु, ब्र वादिषु चोत्तरपदेषु स्त्र्येकार्थेषु वा ह्रस्वो भवति । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा, वामोरुतमा, वामोरूतमा, मद्रबाहुरूपा, मद्रबाहूरूपा, कमण्डलुकल्पा, कमण्डलूकल्पा, कद्र ब्रुवा, कद् ब्रुवा,20 पगुचेली, पङ्गुचेली, श्वश्रुगोत्रा, श्वश्रूगोत्रा, कुरुमता, कुरूमता, भीरुहता, भीरूहता। एकार्थ इत्येव ? भीर्वा हता-भीरूहता ।। ६७ ।। महतः करघासविशिष्टे डाः ॥ ३. २. ६८ ॥ करादिषूत्तरपदेषु महतो डा इत्ययमन्तादेशो वा भवति । वैयधिकरण्ये इयं विभाषा, सामानाधिकरण्ये तु परत्वादुत्तरेण नित्य एव विधिः । महतां25 करः महाकरः, महत्करः, कर एव कार इति महाकारः, महत्कारः, महाघासः,

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658