Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५८४ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पा० २. सू० ७४-७५.]
गवि युक्ते ॥ ३. २. ७४ ॥
अष्टन्शब्दस्य गव्युत्तरपदे युक्तऽभिधेये दीर्घोऽन्तादेशो भवति । अष्टागवं शकटम्, अष्टौ गावो युक्ता अस्मिन्निति त्रिपदे बहुव्रीहौ कृते उत्तरपदे परे द्वयोद्विगुः ‘गोस्तत्पुरुषात्' [७. ३. १०५.] इत्यट् समासान्तः, तत्र दीर्घत्वेन युक्तार्थसंप्रत्ययाद्गतार्थत्वाद्युक्तशब्दस्य निवृत्तिः, अथवा-समाहार- 5 द्विगुः, तत्र साहचर्यादुपचारादष्टगवेन युक्त शकटमष्टागवमुच्यते, गवीति किम् ? अष्टतुरगो रथः । युक्त इति किम् ? अष्टगवम् ब्राह्मणधनम्, अष्टगुश्चैत्रः ।। ७४ ।।
न्या० स०--गवि युक्त । अष्टौ गावो युक्ता अस्मिन् शकटे अष्टागवं शकटमिति उक्त ततश्च अन्यपदार्थ शकटेऽभिधेये किमिति समासः क्रियते यतोऽष्टो गावो युक्ता इति 10 कथं न क्रियते यत इति कृतेऽपि युक्तोऽर्थो गम्यते। यतोऽष्टौ गावो. युक्ताः कोऽर्थोऽष्टौ गावः संबद्धा इत्यर्थ इति युक्तोऽर्थोऽत्रापि गम्यते तत्कथमऽन्यपदार्थे क्रियते ? उच्यते, प्रत्यासत्तिन्यायात् यदा तैर्गोभियुक्त वाच्यं शकटं भवति तदाऽनेनाकार इष्यते । यतस्तैर्गोभियुक्त शकटमेवासन्नमस्तीति प्रत्यासत्तिः । तहि कथं गवीति कि अष्टतुरंगो रथ इत्यत्र द्वयङ्गविकलत्वं व्यावृत्तेर्यतो युक्तोऽप्यर्थो नास्ति ? उच्यते, अष्टौ तुरगा अस्य15 रथस्येत्यत्र विद्यते षष्ठी सा च योज्ययोजकसंबन्धेऽस्ति । ततश्च योज्यास्तुरगाः संबद्धाः कर्तव्याः केन ? योजकेन देवदत्तलक्षणेन परं सहसामर्थ्याद् रथेनैवैति युक्तोऽर्थोऽस्तीति न । द्वयङ्गविकलत्वं व्यावृत्तेः । उपचारो ह्यनेकधान्त अाह साहचर्यादिति । अष्टतुरगो रथ इति । अष्टानां तुरगाणां समाहारः पात्रादित्वात् अष्टतुरगमत्राऽस्ति अभ्रादित्वादः । इदं यदि न क्रियते तदा द्वयङ्गविकलता स्यात् । अष्टगवमिति अष्टानां गवां समाहारे 'गोस्तत्पुरुषात्'20 [७.३.१०५.] अट् समासान्तः ।। ३. २..७४ ।।
नाम्नि ॥ ३. २. ७५ ।।
अष्टनशब्दस्योत्तरपदे परे नाम्नि संज्ञायां दीर्घोऽन्तादेशो भवति । अष्टौ पदान्यत्र अष्टापदः कैलाशः, अष्टापदं-सुवर्णम् अष्टावक्रो मुनिः, अष्टाविटपो नाम कश्चित् । नाम्नीति किम् ? अष्टदण्डः, अष्टगुण-25 मैश्वर्यम् ।। ७५ ।।
न्या० स०-नाम्नि। अष्टापदमिति अष्टसु लोहेषु पदं प्रतिष्ठा यस्य तत् ।। ३.२.७५ ॥
Loading... Page Navigation 1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658