Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५४.]
स्त्रियां विशेष्यायां गुणवचनानामाश्रयतो लिङ्गवचनानीति दृढादिभिः स्त्रीलिङ्गर्भाव्यम् ? सत्यं, दृढादिशब्दोऽत्राऽदाढ्यादिनिवृत्तिपरः प्रयुज्यते । तत्र चादाढर्यादिनिवृत्तिपरायां नोदनायां लिङ्गविशेषोपादानस्यानुपकारित्वाद् भक्त : स्त्रीत्वविवक्षामन्तरेणाऽपि दाढर्यादिमात्रविवक्षयाप्यदाढर्यादिनिवृत्तेः सिद्धत्वात् स्त्रीत्वमत्र न विवक्षितमित्यौत्सर्गिक नपुसकत्वमेव भवति । कल्याणी भक्तिरित्यादौ तूत्तरपदसमानाधिकरण्याभिव्यक्त्यर्थं 5 पूर्वपदे स्त्रीत्वमुच्यते । विवक्षाद्वयसभवे हि यथाकाम प्रयोगो भवतीति समाधानार्थ: ।। ३. २. ५३ ।।
तद्धिताककोपान्त्यपूरण्याख्याः
॥ ३. २. ५४ ।।
तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्त्यो यासां तास्तद्धिताककोपान्त्याः, पूरणीप्रत्ययान्ता, प्राख्याः संज्ञास्तद्र पाश्च परतः स्त्रियः पुंवन्न 10 भवन्ति । तद्धित-मद्रिकाभार्यः, वृजिकाभार्यः, लाक्षिकीभार्यः लाक्षिकीबृहतिकः, लाक्षिकीदेश्या, रौचनिकीचरी, मद्रिकायते, वृजिकामानिनी । अक:-कारिकाभार्यः, हारिकाभार्यः, विलेपिकाया धयं-वैले पिकम्, प्रानुलेपिकम्, कारिकाकल्पा, पाचिकारूपा, कारिकायते, पाचिकामानिनी। पूरणीद्वितीयाभार्यः, पञ्चमीभार्यः, द्वितीयाकल्पा, पञ्चमीदेश्या, पञ्चमीयते,15 षष्ठीमानिनी। आख्या-दत्ताभार्यः, गुप्ताभार्यः, दत्तारूपा, गुप्तापाशा, गुप्तामानिनी। कस्य तद्धिताकविशेषणं किम् ? पाकभार्यः, मूकभार्यः, जल्पाकभार्यः, कामुककल्पा। जागरूकरूपा, लुण्टाकायते, कुट्टाकायते, कुट्टाकमानिनी ।। ५४ ।।
न्या० स०--तद्धिता। तद्धितश्चाकश्च तद्धिताको तद्धिताकयोः कः स20 उपान्त्यो येषां परत: स्त्रीरूपाणां शब्दानामिति कृत्यम् । वत्त्यभिप्रायेण त यासामिति कृते ह्रस्वत्वं न स्यात् । अत्र ड्यन्तेभ्यो रूपप्कल्पपौ नोदाहियेते, तयोः परत्वात् 'यः' [३. २. ६४. ] इत्यनेन ह्रस्वत्वं भवति । एवमुत्तरयोरपि सूत्रयोर्द्रष्टव्यम् । वैलेपिकम् इत्यत्र 'ऋन्नरादे' [६. ४. ५१.] एवमग्रतनेऽपि। कारिकाकल्प इति बाधन्ते स्वार्थिका: क्वचिदित्याप् न । ननु दत्तागुताशब्दो संज्ञाशब्दत्वात् स्वतः स्त्रीलिङ्गो25 तत्कथमनेन निषेधः ? सत्यं, एतौ संज्ञायामपि वर्तमानौ दानगोपनक्रियासंबन्धात् सर्वष्वप्यर्थेषु स्त्रीपुन्नपुसकेषु वर्तते इत्यत्र स्त्रीविवक्षणात् परतः स्त्रीलिङ्गता ।। ३.२.५४ ।।
Loading... Page Navigation 1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658