Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० १३-१४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५५१
तपनमण्डलदीपितमेकतः, सततनैशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः, शिवमिवानुगतं गजचर्मणा ।। १ ।। सततनशतमोवतमिति निशायां भवं 'निशाप्रदोषात्' [ ६. ३. ८३.] इतीकणो विकल्पाद् भवेऽण । नैशं च तत् तमश्च सततं च तन्नैशतमश्च तेन वृतमिति ।।३.२.१२॥
जनुषोऽनुजान्धे ॥ ३. २. १३ ॥
पुम्स्शब्दाज्जनुःशब्दाच्च परस्य टावचनस्य यथासंख्यमनुजशब्देऽन्धशब्दे चोत्तरपदे परे लुब् न भवति । पुंसा करणेनानुजः पुंसानुजः, जनुषा जन्मनान्धः-जनुषान्धः,-अविकृताक्षो जात्यन्ध उच्यते । अन्ये तु जतुः शब्दात्तकारश्रुतेरिच्छन्ति । ट इत्येव ? पुमासमनुजाता पुमनुजा ।। १३ ।।
न्या० स०---पुंजनुषो० । अन्धेश्चुरादिणिजन्तादच्यन्धः अन्धनं वाऽन्धस्तदऽस्ति 10 अभ्रादित्वात्, उभयोः करणे तृतीया 'कारकं कृता' [ ३. १. ६८. ] इति समासः .।। ३. २. १३ ॥
आत्मनः पूरणे ॥३. २. १४ ॥
प्रात्मनः परस्य टावचनस्य पूरणप्रत्ययान्ते उत्तरपदे परे लुप् न भवति । अात्मनाद्वितीयः, प्रात्मनातृतीयः, आत्मनाचतुर्थः, आत्मनापञ्चमः,15 आत्मनाषष्ठः, प्रात्मनैकादशः, पूर्वादित्वात्समासः । कथं जनार्दनस्त्वात्मचतुर्थ एवेति ? आत्मा चतुर्थोऽस्येति बहुव्रीहिः ॥ १४ ।।
न्या९ स०--प्रात्मनः। अत्र पूरणार्थाभिधायक: प्रत्ययः पूरणशब्देनोच्यत इत्याह पूरणप्रत्ययान्ते इति । आत्मनाद्वितीय इति अथात्र केन तृतीया न ह्यत्र करणादिस्तृतीयाऽर्थोऽस्ति, करणादेः कारकत्वात् क्रियामन्तरेण च तस्याऽसंभवात् । न चाऽत्र20 काचित् क्रियास्ति ? उच्यते, 'यद्भदैः' [२. २. ४६. ] इत्यत्र तृतीया । समासस्तु पादित्वात । गम्यक्रियापेक्षया करणे वा ततीयाऽस्तु तदा बाहलकात समासः। बहव्रीहिरिति ननु वत्तिपदार्थव्यतिरिक्त नाऽन्यपदार्थेन भाव्यं चित्रग्वादिवत् अत्र तु तस्यैवान्यपदार्थत्वात् कथं बहुव्रीहिः ? उच्यते, एकस्यैव वस्तुनो बुद्धिपरिकल्पितभेदस्य वत्तिपदार्थत्वमन्यपदार्थत्वं च न विरुध्यते । यथा शोभनशरीरः शिलापुत्रक इति25 ॥३.२.१४ ।।
Loading... Page Navigation 1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658