Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 611
________________ [पा० २. सू० ५१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६६ अत्रकरणः 'अनाम्न्यद्विः प्लुप्' [६. ४. १४७.] इति प्लुपः, पित्त्वात्पुंस्त्वम्, ततो 'योश्या' [६. १. १२६.] इत्यादिना यत्रोः लुप् भवति । गतगतेत्यत्रापि प्लुप्चादावेकस्य स्यादेरित्यनुवर्तमाने 'पाबाधे' [७. ४. ८५.] इति द्विर्वचने आदेः स्यादेर्लुपः, पित्त्वात्पुंस्त्वम् ।। ५० ॥ न्या० स०-क्यङ्मानि०। अजथ्यमिति पत्र 'स्वाङ्गाद् कीर्जातिश्च' 5 [ ३. २. ५६. ] इति निषेधेऽपि पित्करणात् पुंवद्भावः । वर्शनीयका अत्राऽसंदेहार्थमिकारो न कृतः, तथाहि किमत्र प्रवद्धावे सति 'प्रस्यायत्ततक्षिपकादीनाम' [२.४.१११.] इत्यनेन इकारः। यद्वाऽकृतेऽपि पुवद्भावे 'स्वज्ञाजभस्त्रा' [ २. ४. १०८.] इत्यनेनाप एव स्थाने इति पुवद्भावाभावयोर्न विशेषप्रतीतिः स्यात् । दारदिकेति दरदां राज्ञी 'पुरुमगध' [ ६. १. ११६. ] इत्यण् । यदा त्वपत्यार्थेऽण तदा 'स्वाङ्गाद् ङी'10 [ ३. २. ५६. ] इति गोत्रं चरणैः सहेति जातित्वे पुवद्भावप्रतिषेधः स्यात् । अथेदृशे वाक्ये कृतेऽण न प्राप्नोति यतो राज्यऽभिवेये उक्तः । अत्र तु स्त्रीत्वविशिष्टोऽस्तीति न प्राप्नोति ? उच्यते, नामग्रहणे लिङ्गविशिष्टस्याऽपीति भविष्यति ।। ३. २.५० ।। जातिश्च णितद्धितयरवरे ॥ ३. २. ५१ ॥ अन्या परतः स्त्री जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते15 विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद्भवति, अनूङ् । णि, पट्वीमाचष्टे, पटयति, लघयति, एवमेतयति, श्येतयति । तद्धितयः, एन्यां साधुः एत्यः, एवं श्येत्यः, एन्याः भावः ऐत्यम्, एवं श्यैत्यम्, लौहित्यम् । तद्धितस्वर, भवत्या इदं भावत्कम्, भवदीयम्, इयमासामतिशयेन पटवी पटिष्ठा, पटीयसी। जाति,-तद्धितय-दरदोऽपत्यं स्त्री अण, लुप्-दरत् तस्यां साधुः दारद्यः, एवम्20 औशिज्यः, पुंवद्भावादणो लुप् निवर्तते । तद्धितस्वरे,-गाायण्या: कुत्सितमपत्यं, गार्ग्यः, गार्गिकः, हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधनिवृत्त्यर्थम्, सति तस्मिन् चकारोऽन्यार्थः-जाति: परतः स्त्री अन्या च परतः स्त्री पुंवद्भवतीत्यर्थः, अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । तद्धितेति किम् ? हस्तिनीमिच्छति हस्तिनीयति, हस्तिन्यः, एनीयति,25 एन्यः । कथं यौवतम् ? भिक्षादौ युवतीति स्त्रीलिङ्गपाठात् कौण्डिन्य इति तु 'कौण्डिन्यागस्त्ययोः'-[६. १. १२७.] इति निर्देशेन पुंवद्भावस्यानित्यत्वात्, अत एव च मानाय्य इत्यत्रापि न भवति । सापत्न इत्यपि 'सपत्न्यादौ'

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658