________________
[पा० २. सू० ५१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५६६
अत्रकरणः 'अनाम्न्यद्विः प्लुप्' [६. ४. १४७.] इति प्लुपः, पित्त्वात्पुंस्त्वम्, ततो 'योश्या' [६. १. १२६.] इत्यादिना यत्रोः लुप् भवति । गतगतेत्यत्रापि प्लुप्चादावेकस्य स्यादेरित्यनुवर्तमाने 'पाबाधे' [७. ४. ८५.] इति द्विर्वचने आदेः स्यादेर्लुपः, पित्त्वात्पुंस्त्वम् ।। ५० ॥
न्या० स०-क्यङ्मानि०। अजथ्यमिति पत्र 'स्वाङ्गाद् कीर्जातिश्च' 5 [ ३. २. ५६. ] इति निषेधेऽपि पित्करणात् पुंवद्भावः । वर्शनीयका अत्राऽसंदेहार्थमिकारो न कृतः, तथाहि किमत्र प्रवद्धावे सति 'प्रस्यायत्ततक्षिपकादीनाम' [२.४.१११.] इत्यनेन इकारः। यद्वाऽकृतेऽपि पुवद्भावे 'स्वज्ञाजभस्त्रा' [ २. ४. १०८.] इत्यनेनाप एव स्थाने इति पुवद्भावाभावयोर्न विशेषप्रतीतिः स्यात् । दारदिकेति दरदां राज्ञी 'पुरुमगध' [ ६. १. ११६. ] इत्यण् । यदा त्वपत्यार्थेऽण तदा 'स्वाङ्गाद् ङी'10 [ ३. २. ५६. ] इति गोत्रं चरणैः सहेति जातित्वे पुवद्भावप्रतिषेधः स्यात् । अथेदृशे वाक्ये कृतेऽण न प्राप्नोति यतो राज्यऽभिवेये उक्तः । अत्र तु स्त्रीत्वविशिष्टोऽस्तीति न प्राप्नोति ? उच्यते, नामग्रहणे लिङ्गविशिष्टस्याऽपीति भविष्यति ।। ३. २.५० ।।
जातिश्च णितद्धितयरवरे ॥ ३. २. ५१ ॥
अन्या परतः स्त्री जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते15 विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंवद्भवति, अनूङ् । णि, पट्वीमाचष्टे, पटयति, लघयति, एवमेतयति, श्येतयति । तद्धितयः, एन्यां साधुः एत्यः, एवं श्येत्यः, एन्याः भावः ऐत्यम्, एवं श्यैत्यम्, लौहित्यम् । तद्धितस्वर, भवत्या इदं भावत्कम्, भवदीयम्, इयमासामतिशयेन पटवी पटिष्ठा, पटीयसी। जाति,-तद्धितय-दरदोऽपत्यं स्त्री अण, लुप्-दरत् तस्यां साधुः दारद्यः, एवम्20 औशिज्यः, पुंवद्भावादणो लुप् निवर्तते । तद्धितस्वरे,-गाायण्या: कुत्सितमपत्यं, गार्ग्यः, गार्गिकः, हस्तिनीनां समूहो हास्तिकम् । जातिग्रहणं जातिलक्षणप्रतिषेधनिवृत्त्यर्थम्, सति तस्मिन् चकारोऽन्यार्थः-जाति: परतः स्त्री अन्या च परतः स्त्री पुंवद्भवतीत्यर्थः, अकृते हि चकारे जातेरेव पुंवद्भावः स्यात् । तद्धितेति किम् ? हस्तिनीमिच्छति हस्तिनीयति, हस्तिन्यः, एनीयति,25 एन्यः । कथं यौवतम् ? भिक्षादौ युवतीति स्त्रीलिङ्गपाठात् कौण्डिन्य इति तु 'कौण्डिन्यागस्त्ययोः'-[६. १. १२७.] इति निर्देशेन पुंवद्भावस्यानित्यत्वात्, अत एव च मानाय्य इत्यत्रापि न भवति । सापत्न इत्यपि 'सपत्न्यादौ'