Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 597
________________ [पा० २. सू० २३-२४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५५ 10 सप्तम्याः कामशब्दादन्यस्मिन्नुत्तरपदे परे लुब् न भवति । कण्ठे कालोऽस्य कण्ठेकालः, उदरेमणिः, वहेगडुः, पुतेवलिः, उरसिलोमा, शिरसिशिखः । अमूर्धमस्तकादिति किम् ? मूर्धशिखः, मस्तकशिखः । स्वाङ्गादिति किम् ? अक्षशौण्डः, मुखपुरुषा शाला। अकाम इति किम् ? मुखकामः । अद्वयञ्जनादित्येव ? अगुलिवणः, जङ्घावलिः। बहुलाधिकारात्करकमलम्, 5 गलरोगः, गलवणः, इत्यादि सिद्धम् ।। २२ ।। न्या० स०--अमूर्ख। शब्दप्रधानो निर्देशो नाऽर्थप्रधान इति 'समानामर्थे' [ ३. १. ११८. ] इति नैकशेषः। वहेगडुरिति 'गड्वादिभ्यः' [ ३. १. १५६. ] इत्यनेन विकल्पितोऽपि बाहुलकात् नित्यं पूर्वनिपातः ।। ३. २. २२ ।। बन्धे घञि नवा ॥ ३. २. २३ ॥ बन्धशब्दे घअन्ते उत्तरपदे परे अद्वयञ्जनान्तात्परस्याः सप्तम्या वा लुब् न भवति, स्वाङ्गादस्वाङ्गाच्चायं विकल्पः । हस्ते बन्धो हस्ते बन्धोऽस्येति वा हस्तेबन्धः, हस्तबन्धः, चक्रेबन्धः, चक्रबन्धः । बन्ध इति किम् ? पुटपाकः, मनोरागः। घनीति किम् ? अजन्ते माभूत्, बध्नातीति बन्धः चक्रबन्धः, हस्तबन्धः, चारकबन्धः। अद्व्यञ्जनादित्येव गुप्तिबन्धः,15 काराबन्धः ।। २३ ॥ न्या० स०--बन्धे घनि०। चक्रबन्धः, हस्तबन्ध इत्यादिष्वनेन सूत्रेण न भवति तर्हि मा भवतु 'तत्पुरुषे कृति' [३. २. २०.] इति अनेनालुप् कथं न भवति ? उच्यते, 'अव्यञ्जनात्' [ ३. २. १८. ] इत्यतः सूत्राद् बहुलमित्यनुवर्तते ततश्च तत्पुरुषे कृतीति बहुलमलुप् भवति ततश्चात्रालुप् न भवति, तर्हि अमूर्धमस्तकादित्यनेन सूत्रेणाऽलुप्20 कथं न भवति ? उच्यते, इदं सूत्रं न प्रवर्तते यत्र तत्पुरुषे कृतीति न प्राप्नोति, निषेधस्तत्रेदं प्रवर्तते । अत्र तु तत्पुरुषे निषेधस्ततश्च तेन बहुलं भवति । अतोऽलुप् न भवति ।। ३. २. २३ ।। कालात्तनतरतमकाले ॥ ३. २. २४ ॥ अव्यञ्जनान्तात्कालवाचिनः शब्दात्परस्याः सप्तम्यास्तनतरतम-25 प्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुप् न भवति । तन,-पूर्वाह णेतनः, पूर्वाह णतनः, अपराह णेतनः, अपराहणतनः, तर-पूर्वाह णेतराम्, पूर्वाह गतरे,

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658