Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 588
________________ बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० २-४.] इत्याह- इमे परस्परादय इत्यादि कर्मव्यतिहारः क्रियाव्यतिहार एकस्यान्यतरभोजनादिरूपः स विषयो येषामिति विग्रहः, पर अन्य इतर इति सर्व्वादिपाठात् सर्व्वादिकार्याविरोधः, यद्येवं कथं द्विर्वचनादि कार्यमित्याह । अस्मादेवेत्यादि नपुंसके द्वितीयैकवचनस्य ग्रन्योऽन्याम् अन्योन्यमित्यादेशद्वय सद्भावे प्रादेशाभावे तु अन्योन्यमिति भवति ।। ३. २. १. । ५४६ 5 अमव्ययीभावस्यातोsपञ्चम्याः ॥। ३. २. २ ।। . अव्ययीभावसमासस्याकारान्तस्य संबन्धिनः स्यादेरमित्ययमादेशो भवति ‘अपञ्चम्याः' पञ्चमीं च वर्जयित्वा । उपकुम्भं तिष्ठति, उपकुम्भं पश्य, उपकुम्भं देहि, उपकुम्भं स्वामी । श्रव्ययीभावस्येति किम् ? कष्टश्रितः । तत्संबन्धिनः स्यादेरिति किम् ? प्रियोपकुम्भस्तिष्ठति, प्रियोपकुम्भाय देहि 110 अत इति किम् ? अधिस्त्रि, उपवधु, उपकर्तृ । पञ्चम्या इति किम् ? उपकुम्भात् ।। २॥ न्या० स० -- श्रमव्ययीभा० । नन्वत्राद् ग्रहरणं किमर्थं यतः 'अनतो लुप्' [३.२.६.] इति सूत्रेण यत्राकारान्तत्वं तत्र लुबभावात् अनेनाम् भविष्यतीति ? सत्यं प्रत्राद्ग्रहणं विना 'अनत:' [ ३. २. ६. ] इत्यत्र पर्यु दासो नञ् स्यात्ततश्च अतः स्वरस्य वर्जनमित्यन्य- 15 स्मादपि स्वरान्तात् लुप् स्यात्ततो यत्र व्यञ्जनान्तत्वं स्यात् तत्राप्यमव्ययीभावस्यापश्ञ्चम्या इति कृतेऽमादेशः स्यादिति प्रत्ग्रहरणमिति । 'म' विधानेनैव सिद्धे 'अम्' विधानं संबोधने हे उपकुम्भ इत्यादौ 'प्रदेत: स्यमो:' [ १. ४. ४४ ] इति ग्रम्लोपार्थं उपजरसमिति जरसादेशार्थं च ॥ ३.२.२ ॥ वा तृतीयायाः ।। ३. २. ३. ।। अकारान्तस्याव्ययीभावस्य संबन्धिन्यास्तृतीयाया: स्थाने वा अम् भवति । कि त उपकुम्भम्, किं तं उपकुम्भेन । तत्संबन्धिन्यास्तृतीयाया इति किम् ? किं नः प्रियोपकुम्भेन ।। ३ । 20 सप्तम्या वा ॥। ३. २.४ ।। अकारान्तस्याव्ययीभावस्य संबन्धिन्याः सप्तम्या श्रमादेशो भवति वा 125 उपकुम्भं निधेहि, उपकुम्भे निधेहि । तत्संबन्धिन्याः सप्तम्या इति किम् ? प्रियोपकुम्भे निधेहि । योगविभाग उत्तरार्थः ॥ ४ ॥

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658