________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० २. सू० २-४.]
इत्याह- इमे परस्परादय इत्यादि कर्मव्यतिहारः क्रियाव्यतिहार एकस्यान्यतरभोजनादिरूपः स विषयो येषामिति विग्रहः, पर अन्य इतर इति सर्व्वादिपाठात् सर्व्वादिकार्याविरोधः, यद्येवं कथं द्विर्वचनादि कार्यमित्याह । अस्मादेवेत्यादि नपुंसके द्वितीयैकवचनस्य ग्रन्योऽन्याम् अन्योन्यमित्यादेशद्वय सद्भावे प्रादेशाभावे तु अन्योन्यमिति भवति ।। ३. २. १. ।
५४६
5
अमव्ययीभावस्यातोsपञ्चम्याः ॥। ३. २. २ ।। .
अव्ययीभावसमासस्याकारान्तस्य संबन्धिनः स्यादेरमित्ययमादेशो भवति ‘अपञ्चम्याः' पञ्चमीं च वर्जयित्वा । उपकुम्भं तिष्ठति, उपकुम्भं पश्य, उपकुम्भं देहि, उपकुम्भं स्वामी । श्रव्ययीभावस्येति किम् ? कष्टश्रितः । तत्संबन्धिनः स्यादेरिति किम् ? प्रियोपकुम्भस्तिष्ठति, प्रियोपकुम्भाय देहि 110 अत इति किम् ? अधिस्त्रि, उपवधु, उपकर्तृ । पञ्चम्या इति किम् ?
उपकुम्भात् ।। २॥
न्या० स० -- श्रमव्ययीभा० । नन्वत्राद् ग्रहरणं किमर्थं यतः 'अनतो लुप्' [३.२.६.] इति सूत्रेण यत्राकारान्तत्वं तत्र लुबभावात् अनेनाम् भविष्यतीति ? सत्यं प्रत्राद्ग्रहणं विना 'अनत:' [ ३. २. ६. ] इत्यत्र पर्यु दासो नञ् स्यात्ततश्च अतः स्वरस्य वर्जनमित्यन्य- 15 स्मादपि स्वरान्तात् लुप् स्यात्ततो यत्र व्यञ्जनान्तत्वं स्यात् तत्राप्यमव्ययीभावस्यापश्ञ्चम्या इति कृतेऽमादेशः स्यादिति प्रत्ग्रहरणमिति । 'म' विधानेनैव सिद्धे 'अम्' विधानं संबोधने हे उपकुम्भ इत्यादौ 'प्रदेत: स्यमो:' [ १. ४. ४४ ] इति ग्रम्लोपार्थं उपजरसमिति जरसादेशार्थं च ॥ ३.२.२ ॥
वा तृतीयायाः ।। ३. २. ३. ।।
अकारान्तस्याव्ययीभावस्य संबन्धिन्यास्तृतीयाया: स्थाने वा अम् भवति । कि त उपकुम्भम्, किं तं उपकुम्भेन । तत्संबन्धिन्यास्तृतीयाया इति किम् ? किं नः प्रियोपकुम्भेन ।। ३ ।
20
सप्तम्या वा ॥। ३. २.४ ।।
अकारान्तस्याव्ययीभावस्य संबन्धिन्याः सप्तम्या श्रमादेशो भवति वा 125 उपकुम्भं निधेहि, उपकुम्भे निधेहि । तत्संबन्धिन्याः सप्तम्या इति किम् ? प्रियोपकुम्भे निधेहि । योगविभाग उत्तरार्थः ॥ ४ ॥